________________ 370 काव्यमाला। तेषु निर्णयान्तस्तत्त्वानुपाती यथा'मैनाकः किमयं रुणद्धि गगने मन्मार्गमव्याहतं शक्तिस्तस्य कुतः स वज्रपतनाद्भीतो महेन्द्रादपि / तार्थ्यः सोऽपि समं निजेन विभुना जानाति मां रावणं * आ ज्ञातं स जटायुरेष जरसा क्लिष्टो वधं वाञ्छति // 120 // अत्र निरूपितलक्षणे वितकें जटायुरेष इति तत्त्वानुपाती निर्णयान्तो वितर्कः // मैनाकः किमयमिति / किमयमिति काका पूर्व दोलायमानचित्तस्य नियतकोटिस्पर्शी ज्ञानविशेष उपनीयते स एव तर्कः / एवमन्यत्रापि // स एवातत्त्वानुपाती यथा'अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः शृङ्गारैकरसः खयं नु मदनो मासो नु पुष्पाकरः / वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो ___निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः॥१२१॥' अत्र किमिदं रूपं निर्मातुं यथोक्तः पुराणो मुनिः प्रभवेत् , अतश्चन्द्रादिष्वन्यतमेन प्रजापतिना भवितव्यमित्यतत्त्वानुपातित्वादतत्त्वानुपात्ययं निर्णयान्तो वितर्कः // स एवोभयात्मको यथा___ 'चित्ते निवेश्य परिकल्पितसत्त्वयोगा पोच्चयेन रचिता मनसा कृता नु। .. स्त्रीरत्नसृष्टिरपरा प्रतिभाति सा मे | : धातुर्विभुत्वमनुचिन्त्य वपुश्च तस्याः // 122 // ' सोऽयं तत्त्वानुपातित्वादतत्त्वानुपातित्वाच्चोभयात्मा निर्णयान्तो वितर्कः / /