________________ 3 परिच्छेदः / सरखतीकण्ठाभरणम् / 369 निरालम्बो यथा 'उभौ रम्भास्तम्भावुपरि विपरीतौ कमलयो___ स्तदू रत्नाश्मस्थलमथ दुरूहं किमपि यत् / ततः कुम्भौ पश्चाद्विसकिसलये कन्दलमये ... तदन्विन्दाविन्दीवरमधुकराः किं पुनरिदम् // 119 // ' अत्रोर्वादिषु युवत्यवयवेषूत्पन्नो रम्भास्तम्भभ्रान्तेर्योऽयमेतत्समुदाये किमिदमित्यालम्बनं विना कृतोऽनध्यवसायः स एष निरालम्बनो नाम आन्त्यनध्यवसायो प्रान्तेरेव भेदः // आलम्बनं विनेति / विषयानिर्धारणं व्यक्तीकृतम् // ऊहो वितर्कः संदेहनिर्णयान्तरधिष्ठितः। द्विधासौ निर्णयान्तश्चानिर्णयान्तश्च कीर्त्यते // 39 // मिथ्याप्रतीतिसामान्यादनन्तरं वितर्कलक्षणम् ऊह इति / ऊह इति यस्य प्रसिद्धिः स इत्यर्थः / पर्यायशब्देनापि लक्षणं क्रियत एव / यथा-घटपदार्थतया व्यावृत्तौ संदिहानस्य कलशपदार्थतया निश्चयवतो यः कलशः स घट इति / कथमसौ संशयविपर्ययाभ्यां भिद्यत इत्यत आह-संदेहेति / संदेहो नानाकोटिकस्तथाभूतामेव जिज्ञासां प्रसूते, तर्कस्तु तदनन्तरभावी नियतकोटिकस्तथाभूतामिति / कालखरूपकार्यभेदात् संशयतो 'भेद इति / एवं विपर्ययतोऽपि / स हि तर्कान्तरभाविनिश्चयात्मकः प्रवृत्त्यादिहेतुभूतश्च / तदयं तळभासस्य विपर्ययापर्यवसायिनो विषयविभागः कृतः, स तु तर्कस्य विषयविभागः स्फुट एव संदेहनिर्णययोर्मध्यमधिष्टितः स तद्वर्ती। विभागमाह-द्विधासाविति। निर्णयान्तरोपन्यस्तः फलभूतानिश्चयोऽतथाभूतो निर्णयान्तो निश्चयः // प्रमितिविपर्ययरूपतया द्विविध इत्याशयवान्निर्णयार्थ विभजते तत्त्वानुपात्यतत्त्वानुपाती यश्चोभयात्मकः / स निर्णयान्त इतरो मिथ्यामिथ्योभयात्मकः // 40 // तत्त्वानुपातीति / निगदेनैव व्याख्यातम् // 24 स० क०