________________ 368 काव्यमाला / / अत्र गङ्गाम्भःप्रतिफलितां रजनिकरकलामालोकयतो वासुकेर्येयं शफरीभ्रमेण मुकुलीकुर्वन् फणालीं शफरीयमित्यध्यासिता विपर्ययबुद्धिः सोऽयं भ्रान्त्यतिशयो नाम प्रान्तेरेव भेदः / / जिघृक्षतितमामिति / 'तिङश्च 5 / 3 / 56' इति तमपि 'किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे 5 / 4 / 11' इत्याम् // प्रान्त्यनध्यवसायोऽपि द्विधा-सालम्बनो निरालम्बनश्च / तयोः सालम्बनो यथा 'विरहिणिहिअअकअन्तहिं णिण्णाअइ तक्खणि छाइजइ अलिणिवहेहिं चैतेण चूअवणी / अह तासु वि मअरन्दहिं संदाणिअइ जह ण कलम्ब ण अम्ब ण जम्बू जाणिअइ // 118 // [विरहिणीहृदयकृतान्तैर्निीयते तत्क्षणे छाद्यतेऽलिनिवहैश्चैत्रेण चूतवनी / अथ तास्वपि मकरन्दैर्वध्यते यथा न कदम्बो नाम्रो न जम्बूायते // न कदम्बो नाम्रो न जम्बूरिति ज्ञायत इति त्रयाणामेवावलम्बनभूतत्वात्सालम्बनो नामायं भ्रान्त्यनध्यवसायो भ्रान्तिभेदः // भ्रान्तेरनध्यवसायोऽनिर्धार्यमाणविषयता / विरहिणीजणणं इति / विरहिणीजनस्य / 'अधीगर्थ-२३५२।' इत्यादिना कर्मणि षष्ठी। दअन्तेण दयमानेन रक्षता / णावइ प्रतिभाति / तक्खणि तत्र क्षणे / छाइज्जइ अलिणिवहेहिं छाद्यते - लिनिवहैः करणभूतैः / चैत्तेण चैत्रेण का / चूअवणी चूतवनी। तह तथा / तासु वि तस्या अपि / संदाणिअइ बध्यते / अनिर्धारितविषयतया कथमालम्बननिरालम्बनयोर्भेद इत्यत आह-त्रयाणामेवावलम्बनभूतत्वादिति / उक्तिभङ्ग्या विषयोपादानादित्यर्थः // 1. अत्र श्लोके–'विरहिणीजणण' इति, 'दअन्तेण' इति, ‘णावइ' इति, 'चैत्तेण' इति टीकाकारसंमतः पाठः.