________________ 3 परिच्छेदः / सरखतीकण्ठाभरणम् / प्रतीयमानगुणेन यथा'पिअदंसणेण सुहरसमुउलिअ जइसे ण होन्ति णअणाइम् / 'ता केण कण्णरइअं लक्खिजइ कुवलअं तस्सा // 127 // . . प्रियदर्शनेन सुखरसमुकुलिते यद्यस्या न भवेतां नयने / ____ तत्केन कर्णरचितं लक्ष्येत कुवलयं तस्याः // ] अत्र प्रियदर्शनसुखेन मुकुलितयोरेव लोचनयोस्तस्याः कर्णकुवलयं लक्ष्यते नत्वमुकुलितयोरिति वस्तुना वस्त्वन्तरतिरस्कारः प्रतीयमानगुणतयोपपादित इति प्रतीयमानगुणेन वस्तुना मीलितमिदम् // ननु पिअदसणेणेत्यादि कथं मीलितं, न ह्यत्र तिरस्कारः केनापि शब्देन प्रत्याय्यत इत्यत आह-नत्वमुकुलितयोरिति / यदि मुकुलिते न स्यातां कथं कुवलयं लक्ष्यत इति तर्कस्य तिरस्कारपर्यवसानादिति भावः / मूर्तिरूपादिकः प्रतीयमानो गुणः // पिहितं यथा'पअडिअसणेहसंभावविब्भमन्तिअ जह तुमं दिट्ठो / संवरणवावडाए अण्णोवि जणो तह चेअ // 128 // ' प्रकटितस्नेहसद्भावविभ्रमतया यथा त्वं दृष्टः / संवरणव्यापृतया अन्योऽपि जनस्तथा चैव // ] अत्र प्रकटितस्नेहविभ्रमतया त्वामवलोक्य नैतदन्यो जनो जानाविति सर्वत्र स्निग्धदृष्टिपातेन पिहितमप्येतन्मीलितभेद एव // अपिहितं यथा-. . 'दिट्ठाइवि जण्ण दिट्ठो आलविआएवि जण्ण आलविओ। उवआरो जण्ण कओ तेण अ कलिअं छइल्लेहिम् // 129 // ' [दृष्टयापि यन्न दृष्ट आलपितयापि यन्नालपितः। उपचारो यन्न कृतस्तेन च कलितं छेकैः // ] .......