________________ 3 परिच्छेदः / सरस्वतीकण्ठाभरणम् / 365 अत्र श्यामायामात्मातावसितसिचयप्रान्तबुद्धिरतत्त्वे तत्त्वरूपा प्रियाहसितेन च कारणेन यहाधिता सैषातत्त्वे तत्त्वरूपा कारणबाधिता भ्रान्तिः // . अत्र श्यामायामिति / नात्र पूर्वोदाहरणवच्छब्देन कयाचिदपि वृत्त्यार्थाभावो विषयीकृतः किंतु प्रकारान्तरेणोन्नीयते / तथाहि नायकेनांशुकापहरणलीलायितेऽपि यदिदं राधायाः सिचयावरोधाङ्गचलनभ्रूक्षेपादि मुग्धाङ्गनोचितविभ्रमविरोधि हसितं तत्कारणं बाधस्येति // अतत्त्वरूपा तत्त्वे या सापि त्रैविध्यसिद्धये / हानोपादानयोर्हेतुरुपेक्षायाश्च जायते // 37 // तत्र तत्त्वेऽतत्त्वरूपा हानहेतुर्यथा-... 'सो मुद्धमिओ मिअतलिआहिं तह दूमि तुह आसाहिम् / जह संभावमई णवि गईण परंमुहो जाओ // 111 // ' [स मुग्धमृगो मृगतृष्णिकाभिस्तथा दूनस्त्वदाशाभिः / . यथा सद्भावमयीष्वपि नदीषु पराङ्मुखो जातः॥] अत्र पारमार्थिकीष्वपि नदीषु मृगतृष्णाप्रतारितः सन्यन्न मृगः पयः पातुं प्रतिपद्यते प्रत्युत त्यजति तेनेयं तत्त्वेऽप्यतत्त्वरूपा हानहेतुर्भ्रान्तिः॥ हानं द्विविधम् / प्रवृत्त्यभावो विपरीतश्च प्रयत्नः / द्विधाप्यत्राभिमतमिति व्याख्यानेन स्फुटयति-न प्रतिपद्यते प्रत्युत त्यजतीति // तत्त्वेऽतत्त्वरूपोपादानहेतुर्यथा'समर्थये यत्प्रथमं प्रियां प्रति क्षणेन तन्मे परिवर्ततेऽन्यथा / अतो विनिद्रे सहसा विलोचने करोमि न स्पर्शविभाविताप्रियः॥ अत्राङ्गीकृतलतारूपोर्वशीपरिष्वङ्गसुखनिमीलिताक्षस्य पुरूरवसः शापान्ताविर्भूतसत्यरूपायामपि तस्यां येयं पूवानुभूतैवंविधानेकविधविप्रलम्भसंभावनया नयनयोरनुन्मीलनबुद्धिः सेयं तत्त्वेऽप्यतत्त्वरूपोपादानहेतुमा॑न्तिः //