________________ 366 काव्यमाला। . समर्थये इति / विभाविताप्रिय इति युक्तः पाठः, प्रियादिषु पुंवद्भावप्रतिषेधात् / नात्राभावारोपः स्फुटोऽवगम्यत इति प्रकरणमादाय व्याचष्टे-अत्राङ्गीकृतेति / न च वाच्यं दोलायमानतया संशयरूपमिदं ज्ञानमिति / यतो नास्त्येवात्र प्रियतमा तथापि तदारोपेण मनस्तापातिवाहनमुचितमिति जानतः पुरूरवसोऽनुबन्धप्रकर्षः पुष्यति नान्यथेति सहृदयहृदयसाक्षिकमिदम् / तदेतन्मनाक् स्फुटयति-पूर्वानुभूतैवंविधेति // तत्त्वेऽप्यतत्त्वरूपोपेक्षाहेतुर्यथा'चिकंसया कृत्रिमपत्रिपतेः कपोतपालीषु निकेतनानाम् / मार्जारमप्यायतनिश्चलानं यस्यां जनः कृत्रिममेव मेने // 113 // ' अत्र तत्त्वरूपेऽपि मार्जारे कृत्रिमोऽयमिति बुद्धौ जातायां तस्यां प्रयोजकत्वेन यदुपेक्षणं सेयं तत्त्वेऽप्यतत्त्वरूपोपेक्षाहेतु_न्तिः // प्रयोजकत्वेन यदुपेक्षणमिति / या प्रवृत्तिं निवृत्तिं वा न प्रसूतेऽपेक्षाबुद्धिं वेत्यर्थः // भ्रान्तिमान्भ्रान्तिमाला च भ्रान्तेरतिशयश्च यः। भ्रान्त्यनध्यवसायश्च भ्रान्तिरेवेति मे मतम् // 38 // भ्रान्तिमानिति / भून्नि मतुप् / भूमार्थो द्विविधो बहूनां भ्रान्तीनामेकविषयतो भिन्नविषयाणां वा समानकर्तृता / आद्यो भ्रान्तिमतो विषयो, द्वितीयो भ्रान्तिमालायाः / न हि भ्रान्तिमति मालाक्रमनियमोऽस्ति युगपदपि भिन्नकर्तृकाणां जायमानत्वात् / भ्रान्तेरतिशयः शब्दोपनीतप्रकर्षा भ्रान्तिरिति खकार्यभूतं वितर्कमादाय प्रतीयमानो विपर्ययहेतुर्धमान्तरानुबन्धी // तत्र भ्रान्तिमान् यथा'कपोले मार्जारः पय इति करॉल्लेढि शशिन स्तरुच्छिद्रप्रोतान्बिसमिति करी संकलयति / रतान्ते तल्पस्थान्हरति दयिताप्यंशुकमिति / प्रभामत्तश्चन्द्रो जगदिदमहो विभ्रमयति // 114 // ' अामात..