________________ 364 काव्यमाला / अत्र सुरवधूस्तनमण्डले करिकुम्भत्वेन गृहीतेऽतत्त्वरूपे यन्मिथ्यैव तत्त्वारोपणं न चानन्तरं वाधकोपन्यासः कृतस्तेनेयमबाधिता अतत्त्वे तत्त्वरूपा भ्रान्तिः // मोहविरम इति / परिदृविआ सपल्लवं व्यवस्थापिता / तत्रैव परिपूर्वस्य तिष्ठतेः प्रसिद्धत्वात् / सरोषमिति समवायिविशेषणम् / न च तदन्तरेण क्रियासद्भावः / तेन मोहेऽपि न प्रक्रान्तरसानुभावस्वरूपतामहासीदिति व्यज्यते / इत्थं च दृढानुबन्धोऽसो रसो यद्बलवत्तरविरोधिसंपर्केऽपि न कार्कश्यमगादिति स्थूलमण्डलमुरवधूपदैः प्रकाश्यते संभावनया न तु पूर्वोत्पन्नज्ञानेन / करिकुम्भानां दृढतरवासनत्वात् / अबाधितेत्यत्र यथार्थोऽभिमतस्तथा दर्शयति-बाधकोपन्यास इति // अतत्त्वे तत्त्वरूपा बाधिता यथा 'हसि सहत्थतालं सुक्खवडं उवगएहि पहिएहि / पत्तप्फलसारिच्छे उड्डीणे पूसवंदम्मि // 109 // ' हसितं सहस्ततालं शुष्कवटमुपगतैः पथिकैः / पत्रफलसदृशे उड्डीने शुकवृन्देऽस्मिन् // ] अत्र पत्रफलितोऽयं न्यग्रोध इत्यतत्त्वरूपे तत्त्वबुद्रावुत्पन्नायां य उत्तरकालमपत्रतानिष्फलताप्रत्ययस्तेनेयमतत्त्वे तत्त्वरूपाख्या बाधिता भ्रान्तिः // हसिअमिति / पूसः शुकः / वन्दं वृन्दम् / शुकच पुच्छानां पक्वन्यग्रोधफलनवपलाशसादृश्यम् / यद्यपि नात्र बाधोऽभिहितस्तथापि उड्डीण इत्यनेनार्थाभावविषया प्रतीतिः क्रियते / कथमन्यथा हसितहस्ततालरूपकार्यस्योपन्यासः स्यात् // अतत्त्वे तत्त्वरूपा कारणबाधिता यथा'कनककलशस्वच्छे राधापयोधरमण्डले नवजलधरश्यामामात्मद्युतिं प्रतिबिम्बिताम् / ' असितसिचयप्रान्तभ्रान्त्या मुहुर्मुहुरुरिक्षप: ञ्जयति जनितव्रीडाहासः प्रियाहसितो हरिः // 110 // '