________________ 3 परिच्छेदः। सरखतीकण्ठाभरणम् / 363 __ रोमाञ्चोद्गम एव सर्षपकणः पाणी पुनः पल्लवी ___ खाजैरेव गृहं प्रियस्य विशतस्तन्व्या कृतं मङ्गलम् 1071 ___ अत्रागच्छतः प्रियस्येयं वन्दनमालिकादिमङ्गलक्रिया मनःपरितोषहेतुस्तस्यास्तन्वनया इङ्गिताकारैरेव यन्निवर्तनं सोऽयमाकस्मिकः खबुद्धिपूर्वकश्च तत्सहकारिकारणत्वाददैवकृतश्च समाहितभेदः // __ अत्रागच्छतः प्रियस्येति / मङ्गलक्रियामात्रं न चमत्कारास्पदमत उक्तं मनःपरितोषहेतुरिति / स्मितं बुद्धिपूर्वम् / रोमाञ्चो न बुद्धिपूर्वः / एवं दृष्ट्यादी यथायथं वेदितव्यमिति // बुद्धिपूर्वायां सहायाप्तौ क्वचिद्धान्तिरप्यस्ति ततस्तदनन्तरं तां लक्षयति भ्रान्तिर्विपर्ययज्ञानं द्विधा सापि प्रयुज्यते / अतत्त्वे तत्त्वरूपा च तत्त्वे चातत्त्वरूपिणी // 35 // अतत्त्वे तत्त्वरूपा या त्रिविधा सापि पठ्यते / अबाधिता बाधिता च तथा कारणबाधिता // 36 // भ्रान्तिरिति / अतस्मिंस्तदिति निश्चयो भ्रान्तिः। सैव विपर्ययः / न चैवं संशयादय इत्युक्तपूर्वम् / सा द्विधा-यस्य यत्रासद्धावस्तस्य तत्र सद्भावारोपः, यस्य वा यत्र सद्भावस्तस्य तत्रासद्भावारोपः। सोऽयं भावाभावकृतो नियमो भ्रान्तेधिनियमेऽपि क्वचिद्वारोपन्यासो भवति क्वचिन्न भवति / उपन्यासो द्विरूपोऽभिधया वृत्त्यन्तरेण च / यत्र बाधोपन्यासे बाधितानुपन्यासे वाऽबाधिता तस्मिन्नेव वाक्येऽविज्ञातबाधेत्यर्थः / उपन्यासेतरप्रकारेण ज्ञातबाधका बाधिता। बाधकारणोतेर्बाधपर्यवसानाभिप्रायत्वात् तदेतद्दर्शयति-अबाधिता बाधिता चेति // तत्रातत्त्वे तत्त्वरूपाऽबाधिता यथा 'मोहविरमे सरोसं थोरस्थणमण्डले सुरवहूणम् / . जेण करिकुम्भसम्भावणाइ दिट्ठी परिद्वविआ // 108 // " मोहविरमे सरोषं स्थूलस्तनमण्डले सुरवधूनाम् / ...... ., येन करिकुम्भसंभावनया दृष्टिः परिस्थापिता // ]