________________ 362 काव्यमाला। हस्तस्पर्शवशेन मूर्ध्नि दशमं मूर्धानमारोपयन् _ शंभोरद्भुतसाहसैकरसिकः कैर्न श्रुतो रावणः // 105 // अत्र योऽयं दशवदनेन खयं छिन्नैः शिरोभिर्भगवतः शंभोरचनाप्रकार उपक्रान्तस्तत्र मूले पञ्च ततश्चतुष्टयमिति शिरोविरचनाप्रपञ्चो बुद्धिपूर्वकोऽदैवकृतः क्रियमाणोऽस्य कर्मणः समाप्तौ सहकारिकारणतामासादयतीत्ययमदैवकृतो बुद्धिपूर्वकः समाहितभेदः // मूले पञ्चेति / अधोऽधः स्थूलपुष्पस्य संनिवेश उपर्युपरि तनुरिति दूर्वापूजाप्रकारः प्रसिद्धः / अन्यतमालोकनमिमित्तैरारोपितैः। अत्र लोकप्रसिद्धपूजाप्रकारः कार्यभूतः / उपर्युपरि तनुसंनिवेशंनिष्पादनं सहकारि / इदं च रावणप्रयत्ननिष्पाद्यत्वाददैवकृतं बुद्धिपूर्वं च भवतीत्यन्यतमेन मूर्धान्यतमस्यारोपणं न नवमच्छेदपर्यन्तमासीत् / पूजास्वरूपेणैव भगवांस्तुष्यति न तथा विदितेनेत्यभिप्रायवतो निस्तरङ्गा भक्तिस्तेन साहसस्याद्भुतत्वम् // आकस्मिकी बुद्धिपूर्वा दैवकृता यथा'सा कौमुदी नयनयोभेवतः सुजन्मा तस्या भवानपि मनोरथबन्धबन्धुः / तत्सङ्गमं प्रति सखे नहि संशयोऽस्ति ___ यस्मिन्विधिश्च मदनश्च कृताभियोगौ // 106 // ' अत्र योऽयं माधवस्य मालती प्रति समागमाभिलाषस्तत्रेयं मालत्या आकस्मिकी बुद्धिपूर्वा च तथा प्रवृत्तिः सोभय्यपि दैवकृता च सहायाप्तिः समाहितभेदः॥ __ अत्र योऽयं माधवस्येति / विधिश्च मदनश्च कृताभियोगावित्यनेन मालत्याः पूर्वानुभावाः कथ्यन्ते / ते च द्विधा भवन्तीत्याकस्मिकी देवपूर्वा सहायसंपत्तिः // आकस्मिकी बुद्धिपूर्वा चादैवकृता यथा'दृष्टिर्वन्दनमालिका स्तनयुगं लावण्यपूर्णौ घटौ। शुभ्राणां प्रकरः स्मितः सुमनसां वक्रप्रभा दर्पणः /