________________ 3 परिच्छेदः / ] सरखतीकण्ठाभरणम् / अत्र माननिराकरणोपक्रमे कालोत्पन्नस्याकस्मिकघनगर्जितस्य मानविध्वंसे सहकारित्वादाकस्मिकीयं दैवकृता सहायसंपत्तिः // ... कार्यारम्भ इति / सहायः प्रकृतकार्यकारणस्य सहकारी, तेनालंकारता आकस्मिक्यचिन्तितपूर्वा बुद्धिपूर्वाद्विपरीता। आकस्मिक्यादीनां प्रत्येकं दैवादैवकृतसंबन्धे षट्प्रकारं समाहितमित्यर्थोक्तम् // ". आकस्मिक्येवादैवकृता यथा 'अनुशासतमित्यनाकुलं नयवाकुलमर्जुनाग्रजम् / .. खयमर्थ इवाभिवाञ्छितस्तमभीयाय पराशरात्मजः // 103 // ' . अत्र भीमानुशासनकालोपक्रम एव व्यासागमनस्य तदुपकारित्वादाकस्सिकीयमदैवकृता सहायाप्तिः // व्यासागमनस्येति / व्यासेन संपाद्यमानस्य / तेनादेवकृतेति // बुद्धिपूर्वा दैवकृता यथा'कल्पान्ते शमितत्रिविक्रममहाकङ्कालदण्डस्फुर च्छेषस्यूतनृसिंहवक्रनखरप्रोतादिकोलामिषः / विश्वैकार्णवताविशेषमुदितौ तौ मत्स्यकूर्मावुभौ __कर्षन्धीवरतां गतः स्यतु जगन्मोहं महाभैरवः // 104 // ' अत्र प्रलयसमये महेश्वरेण समापयितुमुपक्रान्तानां त्रिविक्रमादीनां योऽयं तद्भुवा बडिशादिना मत्स्यकूर्मयोराकर्षणप्रकारः स भगवता भैरवेण बुद्धिपूर्वकमुपकल्प्यमानो दैवात्तथाभूतैरेव तैः संपद्यत इति बुद्धिपूर्वेयं दैवकृता सहायाप्तिः // . दैवात्तथाभूतैरेवेति / नरसिंहनखादीनां बडिशाधुचितमूर्तिशालिनां दैवमेव निमित्तम् , बडिशादिचिन्ता च विषयीकृतेति बुद्धिपूर्वता // बुद्धिपूर्वाऽदैवकृता यथा- 'मूले पञ्च ततश्चतुष्टयमिति सक्संनिवेशैः शिरः पुष्पैरन्यतमावलोकनमितैरुच्छोणितैरर्चिते /