________________ 360 काव्यमाला / तुल्यस्तत्रभवान्प्रयागविटपी यस्यैतदेकार्णवे ___ कायान्तर्विनिवेश्य विश्वमखिलं शाखासु शेते हरिः॥१०१॥' __ अत्र वर्णनीयबाहुकल्पद्रुमयोरभिमतफलदायित्वादिभिः प्रतीतसादृश्ययोभुवनत्रयाभयप्रदायी वर्णनीयबाहौ कृपाणो भेदक इत्येकव्यतिरेकः / तथा वर्णनीयबाहोः प्रयागवटस्य च प्राग्वदेव प्रतीयमानसाहश्ययोरेकस्य भुवनत्रयाभयमहासत्री कृपाणः शाखासु शेते, अन्यस्य तु महाप्रलये खकायान्तर्निवेशिताखिलविश्वो वैकुण्ठः / ताविमौ तयोः सदृशावेव भेदको हरिकृपाणयोर्वा श्यामतादिभिः प्रतीयमानसाहश्ययोरिमावेव धर्मों भेदको सोऽयमेवंप्रकारो,व्यतिरेकसंकर उन्नेयः / खजातिव्यतिरेके प्रतीयमानसादृश्यम् , खव्यक्तिव्यतिरेके चाभिधीयमानसादृश्य यद्युदाहरणं दृश्यते संभवति वा तदा तदप्युदाहार्यम् // एतेनेति / प्राग्वदेवेति / अभिमतफलदायित्वादिभिः / एवंप्रकार इति / न ह्येकवाक्यस्थतामात्रेण तथा चमत्करोति यथाङ्गाङ्गिभावादिभिः परस्परग्रथनयेति / सेव प्रकारपदेनाभिहिता / यद्युदाहरणं दृश्यते संभवति वेति / न हि स्वजातिव्यतिरेके द्वयोरभेदाध्यवसायः सादृश्यमन्तरेण चमत्कारमर्पयतीति कल्पितमेव वाच्यम् / न च कल्पनाशब्दमन्तरेण प्रतीयमानसादृश्यसंभवः; सादृश्यस्य भेदाधिष्टानत्वात् / स्वव्यक्तिव्यतिरेकेऽप्यसंभवस्तथाभूतमेव तु शब्देनो. पादीयत इति स्यादत उक्त यदि दृश्यत इति // ' सहकारित्वं व्यतिरेकनिरूप्यमतो व्यतिरेकानन्तरं समाहितलक्षणमाह कार्यारम्भे सहायाप्तिर्दैवादैवकृतेह या / आकस्मिकी बुद्धिपूर्वोभयी वा तत्समाहितम् // 34 // तत्रा स्मिकी दैवकृता यथा . . 'मानमस्या निराकर्तुं पादयोर्मे पतिष्यतः / उपकाराय दिष्ट्येदमुदीर्णं घनगर्जितम् // 102 //