________________ 3 परिच्छेदः / ] सरस्वतीकण्ठाभरणम् / ... शब्दोपात्तसादृश्य एकव्यतिरेको यथा 'प्रेयानेव वृषस्तवापि सततं भूतिस्तवापि स्थिरा ... - दुर्गाया भवतापि भूधरभुवः सम्यग्गृहीतः करः। निर्व्याज परमेश्वरत्वमियता नो यासि वक्तुं जनै हेलोल्लासितवाहिनीशमथने यन्नो विषादी भवान् // 22 // अत्र प्रियवृषत्वादिभिरभिहितसादृश्ययोरुपमानोपमेययोरुपमेयस्यैव यथोक्तसादृश्यविषये विषादित्वं युक्तमित्येकव्यतिरेकोऽयम् // प्रेयानेवेति। वृषो गोधर्मश्च। भूतिः सम्पद् भस्म च / दुर्गा गौरी विषमा च / भूधरभूगिरिजा पर्वतभूमिश्च / करो हस्तो राजदण्डश्च / वाहिनीशः समुद्रः सेनापतिश्च / विषादी विषभक्षकोऽवसादवांश्च / यद्यप्यत्रांनुरूपं सादृश्यं नास्ति तथापि शब्दसादृश्येनाप्युपमा प्रवर्तत एव / यथा-'सकलङ्क पुरमेतज्जातं संप्रति सितांशुबिम्बमिव' इति / अत एवोभयालंकारत्वमुपमायाः // स एव प्रतीयमानसादृश्यो यथा'सकलङ्केन जडेन च साम्यं दोषाकरेण ते कीदृक् / अभुजङ्गः समनयनः कथमुपमेयो हरेणासि // 93 // ' अत्र प्रतीयमानसादृश्यस्य पूर्वार्धे चन्द्रोपमानस्य सकलङ्कतादिरुत्तरार्धेन वर्णनीयोपमेयस्याभुजङ्गत्वादिरेकस्यैव भेदकः खधर्मोऽभिहितः सोऽयमप्येकव्यतिरेक एव // . सकलकेनेति / कलङ्कोऽपवादो लाञ्छनं च / जडो मूर्खः शीतलश्च / अभुजङ्गो न वेश्यापतिरविद्यमानसर्पश्च / समनयनो युगनयनः सर्वान् समं नयतीति च / आह्लादकत्वादिकं चन्द्रेणानिरुद्धैश्वर्यादिकं परमेश्वरेण सादृश्यं प्रतीयते // शब्दोपात्तसादृश्ये उभयव्यतिरेको यथा.. 'अभिन्नवेलौ गम्भीरावम्बुराशिर्भवानपि / असावञ्जनसंकाशस्त्वं च चामीकरघुतिः // 94 // .. अत्र द्वयोरप्यभिधीयमानसादृश्ययोरुभयव्यतिरेकः //