________________ काव्यमाला / " W . योगिनं परिकल्प्य ततो व्यतिरेकोऽपीति खजातिव्यतिरेकः प्रथमः प्रकारः / द्वितीयस्तु सैव व्यक्तिर्विधर्मेति / एतत्प्रकारद्वयं यथासंख्यमभिधीयमानसादृश्ययोरिति मूलभेदद्वयं तथैवापस्मेकानेकलक्षणं प्रकारद्वयं तत्रैवान्यत्सादृश्यवसादृश्यरूपं द्वयमिति क्रमेण षोढा भेदो विवक्षितः। यथा च खजातिव्यतिरेकयोः प्रतीयमानामिधीयमानसादृश्यगामिता न संभवति तथाग्रे वक्ष्यते // . तत्र शब्दोपात्तसादृश्ये खजातिव्यतिरेको यथा 'अरत्नालोकसंहार्यमवार्य सूर्यरश्मिभिः / - दृष्टिरोधकरं यूनां यौवनप्रभवं तमः // 20 // ' . . ____अत्र यौवनप्रभवस्य तमसस्तमोजात्या सह दृष्टिरोधकरमिति साहश्यमुक्त्वा, अरत्नालोकसंहार्यमवार्य सूर्यरश्मिभिरिति व्यतिरेको विहितः, सोऽयं खजातिव्यतिरेकः / / अत्र यौवनप्रभवस्येति / यौवनकृतमज्ञानलक्षणमन्यदेव तमोऽन्यच्चान्धकाररूपं तयोस्तद्भावापत्तिरियमेव कल्पनास्माभिरुक्ता / अनेन तु प्रकारेण रसः पुष्यतीत्यलंकारमध्ये गणनम् // प्रतीयमानसादृश्ये खव्यक्तिव्यतिरेको यथा... 'अण्णोण्णेहिं सुचरिअसअहिं अणुदिण वड्डिइअ माणु / अप्पणवि ण हु महुवि अह अप्पाणेण समाणु // 91 // - [अन्योन्यैः सुचरितशतैरनुदिनं वर्धते मानः / / . अस्यापि न खलु महानपि अथात्मना समानः // ] . ___ अत्र प्रतीयमानोपमानसादृश्योपचरितभेदादात्मव्यक्तेरन्यैरन्यैश्च सु. चरितशतैः खव्यक्तित एव भेदोऽभिहितः / सोऽयं खव्यक्तिव्यतिरेकः।। अण्णोण्णेहि अन्योन्यैर्मानोऽहंकारः पूजा वा / यौ तु कल्पितभेदाधिकरणत्वेनोपात्तौ विरोधिधर्मवत्तया शब्दात्प्रतीयेते तयोर्निर्यन्त्रणत्वादिकमिति भवति सादृश्यं प्रतीयमानम् // 1. अत्र 'निर्यत्नं णत्वा-' इति पाठ आसीत्तत्र निर्यत्रणत्वादिकमिति कल्पितोऽस्ति /