________________ 355 3 परिच्छेदः। सरखतीकण्ठामरणम् / श्लिष्टपदत्वेऽपि-व्यतिरेकमुखेन गुणवृत्त्या चाभिधानाद्धनुषीव मानुषेऽपि गुणवत्येव महाशब्दो भवतीति वक्रोक्त्या साधावगतिः। तदिदमशब्दत्वादिभिः पूर्वाद्भिद्यमानं समं वक्र च निदर्शनम् / __ण उण वरेति / गुणो धैर्यादिस्तन्त्री च, वंशः कुलं वेणुश्च, टङ्कारोऽव्यक्तानुकरणं ख्यातिश्च / इतरेतरयोगवदिति / तथाहि-त्वन्मुखं पुण्डरीकं च फुल्ले' इत्यत्र फुलं चेतीतरेतरयोगेनैकशेषे एकयोक्त्या फुल्लेति द्वाभ्यां संबध्यते। तथा विनाप्येकशेषं गुणवजिएण वंसुप्पण्णे टङ्कार इति युगपदन्वीयन्ते / ननु यथा राजविरुद्धानामित्यत्र शेषेण ऋजुत्वं तथात्रापि भविष्यतीत्यत आह–श्लिष्टपदत्वेऽपीति / धनुषीव मानुषेऽपि महाशब्दो भवतीति विवक्षितम् / न च व्यतिरेकमुखेनोपनयेऽयमर्थः शब्दादवगम्यते, प्रतीयते चार्थ इति युक्तं वक्रत्वम् / ननु व्यतिरेकेणैव कथं न तुल्यवृत्तिता संमतेत्यत आह-गुणवृत्त्या चेति / सत्यमेतत्तथापि द्वयोवर्णनीययोर्गुणादिकयोरभेदाध्यवसायो वक्तव्यः / तथा गौणवृत्तिव्यपाश्रयेणैव वक्रत्वम् / तदिदमुक्तं व्यतिरेकमुखेन गुणवृत्त्या चेति // व्यतिरेकं विना दृष्टान्तदा@न्तिकभावाभावाव्यतिरेकाभ्यां तल्लक्षणमाह शब्दोपात्ते प्रतीते वा सादृश्ये वस्तुनोद्वयोः / भेदाभिधानं भेदश्च व्यतिरेकश्च कथ्यते // 32 // शब्दोपात्त इति / भेदाभिधानं वैधर्म्यकथनम् / एवं चेत् मेरुसर्षपयोरपि तथाभिधानमलंकारः स्यादत उक्तम्-सादृश्ये वस्तुनोरिति / उपमानोपमेययोरित्यर्थः / सादृश्यं द्विधा / शब्दोपात्तं प्रतीतं च / अशब्दोपात्तमपि ध्वननानुमानादिभिरवगम्यत इति न विरोधस्तदिदमुक्तम्-प्रतीते वेति / तदयमर्थःउद्भूतचमत्कारिसादृश्ययो(रस्योक्तिर्व्यतिरेकः, खरूपाख्यस्तु पृथग् मेदो नास्त्येवेत्युक्तम् // विभागं दर्शयति स्वजातिव्यक्त्युपाधिभ्यामेकोभयभिदा च सः। ..' सादृश्याद्वैसादृश्याच भिन्नः षोढाभिजायते // 33 // खजातीयेति / येन रूपेण वैयतिरेक्यमुपादीयते तद्रूपवन्तं व्यतिरेकप्रति१. द्वाभ्यामिति युक्तं प्रतिभाति /