________________ 354 काव्यमाला। अपि तु किमेतदापतितमित्युक्तिचातुर्येणेति / ननु च उपरीत्यनेन व्यवधानमुपात्तं दृष्टान्तेऽपि शब्द एव प्रतिफलति तत्कथं वक्रत्वमित्यत आहविपर्ययेणेति / घनपटलं नपुंसकम् , फणी पुमान् , दयिता चैकवचनवती, ओषधयो बहुवचनालिङ्गिताः / घनपटलं पूर्व दाष्टान्तिकमुपक्रम्य दृष्टान्तोक्तौ न पूर्व फणी निर्दिष्टः / ततो लिङ्गसंख्यानां विपर्ययो भवति, तदयमर्थेन शब्दत एवोपरि पर्यवस्थानं दूरत्वं च दृष्टान्तयोः प्रतीयते; शिरसि हिमवतीत्येताभ्यामन्यथाकारं बोधितत्वात् / फलतस्तु स एवार्थ इति वक्रतैवेति / सममृजु यथा___'याति चन्द्रांशुभिः स्पृष्टा ध्वान्तराजी पराभवम् / सद्यो राजविरुद्धानां दर्शयन्ती दुरन्तताम् // 88 // ' अत्र राजविरुद्धानामिति श्लिष्टपदेन दर्शयन्तीति वर्तमानकाललक्षणात्सद्य इति तद्धितेन च समकालमेव दृष्टान्तदान्तिकयोः शब्दतो ऋजूक्त्यैवोक्तत्वादिदमृजु समं च निदर्शनम् / __यातीति / राजा चन्द्रो नृपतिश्च / तदनयोः श्लिष्टोक्तिविषयतया न पूर्वापरभावो विभाव्यते / चन्द्रांशुपराभूतध्वान्तराजीनृपतिविरुद्धदुरन्तयोरपि दर्शयन्तीति शत्रा, सद्य इति तद्धितेन च समत्वम् / किंतु ध्वान्तराजी पराभवं यातीति दृष्टान्तोक्तौ सत्यां मध्ये राजविरुद्धानामिति दार्टान्तिकमुक्त्वा पुनरपि दृष्टान्तविशेषणं दर्शयन्तीत्युक्तम् / अतएवोक्तिकवलीकृतत्वादृष्टान्तदानॊन्तिकयोः समत्वमित्याशयवान्व्याचष्टे—अत्र राजविरुद्धानामिति / तदेव वक्र यथा‘ण उण वरकोअण्डदण्डए युतिमाणुसेवि एमे / गुणवज्जिएण जाअइ वंसुप्पण्णे वि टङ्कारो // 89 / / ' न पुनर्वरकोदण्डदण्डके पुत्रि मानुषेऽप्येवमेव / / गुणवर्जितेन जायते वंशोत्पन्नेऽपि टङ्कारः // ] अत्र न केवलं कोदण्डदण्डके मानुषेऽप्येवमेवेतीतरेतरयोगवद्वकतया युगपदभिधानं गुणवर्जितवंशोत्पन्नेऽपि टङ्कारो न जायत इति