________________ 3 परिच्छेदः / सरखतीकण्ठाभरणम् / 353 न्तिके संभवति. शब्देन वा प्रत्याय्यते; किंतु बिम्बप्रतिबिम्बन्यायेनात्र भवति / तथा हि यथा पानकुट्यां हुतवहस्य ज्वलनं यज्ञवाटे च तथाऽव्यवस्थितचित्ततया ग्रामीणाविदग्धयुवतिप्रसक्तो भूत्वान्यत्र नागरिकासु विदग्धासु रज्यते सोऽपि न त्याज्य इत्युक्तिचातुर्यात्तुल्येतिवृत्तता गम्यतेऽतो वक्रत्वमित्याह-किंतु यथेति // उत्तरमृजु यथा'हिअअ तिरच्छीयइ संमुहपच्छा गहिअकडक्खास्स / पहिअ एक्केजे गोरडी णं चउहट्ट उवच्छ // 86 // ' हृदये तिरश्चीना संमुखप्राप्ता पश्चाद्गृहीतकटाक्षास्य / पथिकस्यैकैव गौरतरा ननु चतुष्पथे व्रजति // ] अत्र ऋजूक्त्या शब्द एवाभिधीयमानसाधर्म्य दान्तिकमभिधायो. त्तरकालं दृष्टान्तोऽभिहितस्तदिदमुत्तरमृजु निदर्शनम् // हिअएति / विच्छित्तिपथिकस्याभिलाषिता या योषित्सा एकैव / हृदये स्मरणारूढा सती लग्ना अतएव तिरच्छीयइ तिर्यक्शल्यायमाना पथिकसंमुखाभिमुखस्य तस्य चलितत्वात् / पश्चाच्च गृहीतकटाक्षा पश्चाद्भूतेन गृहीतश्चमत्कृतः कटाक्षो यस्याः / एकेजे एकैव / जिरवधारणे। णं ननु चतुष्पथे कश्चित्संमुखतां कश्चित्तिरश्चीनतां कश्चित्पश्चाद्भावं धत्तेः गोरी तु पथिकस्यैकैव तथेति / अत्र ऋजक्या शब्दत एवेति / तिर्यक्त्वादीनामुभयगामिनां शब्देनोपादानात्प्रतीतिमात्रेण चालंकारनिर्वाहः // तदेव वक्रं यथा-- . 'उपरि घनं घनपटलं दूरे दयिता किमेतदापतितम् / - हिमवति दिव्यौषधयः कोपाविष्टः फणी शिरसि // 87 // ' अत्रापि दार्टान्तिकमभिधायोत्तरकालमेव दृष्टान्तो विहितस्तदिदमु. त्तरं ऋजु निदर्शनम् ; किंतु यथा पूर्वस्मिन् हृदये तिर्यगित्यादिभिः शब्द एव ऋजूक्त्या साधर्म्याभिधानम् , नैवमत्र तथा; अपि तु किमेतदापतितमित्युक्तिचातुर्येण विपर्ययेण च लिङ्गसंख्या यथासंख्यानाम् / तदेतदुत्तरं वकं च निदर्शनम् / 23 स० क.