________________ 352 काव्यमाला। एव तुल्येतिवृत्तता दृष्टान्तदा@न्तिकयोरनुगम्यते तदृजु निदर्शनम् / यत्र तु पर्यवसितायामुक्तौ सहृदयपर्यालोचनया तद्वक्रम् / तदेतदाह-ऋजु वकं चेति / तेन निदर्शनस्य षड् भेदाः // तेषु पूर्वमृजु यथा 'उदयन्नेव सविता पद्मेष्वर्पयति श्रियम् / विभावयति भूतीनां फलं सुहृदनुग्रहः // 84 // अत्र ऋजूक्त्यैव पूर्व दृष्टान्तः पश्चाद्दार्टान्तिकं प्रदर्शितमितीदमृजुपूर्व च निदर्शनं सूर्यदृष्टान्तेन विभूतीनां सुहृदनुग्रहः फलमिति ज्ञापयति // सूर्यदृष्टान्तेनेति / ऋद्धिभिः सुहृदनुगृह्यत इति सिद्धोऽर्थः, किंतु तदेतदेव तासां फलमिति विशेषमभिधातुं सूर्यदृष्टान्तोपन्यासः / अत्र समृद्धताफलं सुहृत्त्वमनुग्रहत्वं चेति शब्दत एव सूर्यादिषु दृष्टान्तदा न्तिकाभिमतेषु प्रतीयत इति ऋजुत्वमित्यर्थः // तदेवं वक्रं यथा'पाणउडी अवि जलिउण हुअवहो जलइ जण्णवाउम्मी। णहु ते परिहरिअव्वा विसमदसासण्ठिआ पुरिसा // 85 // ' [पानकुटीमपि ज्वालयित्वा हुतवहो ज्वलति यज्ञवाटमपि।। नहि ते परिहर्तव्या विषमदशासंस्थिताः पुरुषाः // ] अत्रापि पूर्व दृष्टान्तः पश्चाद्दान्तिकम् / किंतु यथा पूर्वत्रोदयमानः सविता सुहृत्पद्मेषु, श्रियमर्पयतीति तुल्येतिवृत्तता ऋजूक्त्या शब्देनैवाभिधीयते, नैवमत्र किं तर्हि ज्वलनेतिवृत्तेन तुल्यं तत्तु तत्पुरुषाणामितिवृत्तमशाब्दं युक्तिचातुर्यात्प्रतीयते तदिदं पूर्व च वक्र निदर्शनम् // पाणउडीति / पाणपदं म्लेच्छदेशीयम् / पाने कुटी शौण्डिककुटी वा। अत्रापीति / दृष्टान्तेऽपि पानकुटीज्वलनादिकं विशेषणमुपात्तम् / न च तद्दार्टी