________________ 3 परिच्छेदः। सरखतीकण्ठाभरणम् / 351 अत्र वारुण्या यदधराद्रागोऽपहृत्य चक्षुषोर्निक्षिप्तस्तेनेयं व्यत्ययवती, यच्च मुखामोदवासितया स्वामोदेन मुखामोदो विशेषितस्तेन विनिमयवती। तदियमुभयथापि मुख्यवृत्त्यैवोक्तेति मुख्येयमुभयवती परिवृत्तिः॥ लोचनाधरेति / लोचनाधरयोर्यथासंख्यं कृत आहृतो रागो यया तेन लोचने कृतोऽधरादपनीत इति व्यत्ययः / वासिते आनने विशेषितो गन्धो यस्याः सा तथा / तेन तया मुखं वासितं मुखेन च सेति भवति विनिमयः / परगुणात्मगुणानामिति / परगुणानामिति परगुणानां व्यत्ययः, आत्मगुणानां विनिमय इति संबन्धः / कर्तृत्वमुत्प्रेक्षितं तदेतद्दर्शयति-अत्रेति // उभयवत्यमुख्या यथा 'किं चित्रं यदि देवेन भूभृतः करदीकृताः / देवोऽपि दापितः किं तैर्न पुनः पृष्ठतः करम् / / 83 // ' अत्र भूभृतामकरदानां यत्करप्रदानं जिगीषोश्च यत्पृष्ठे हस्तनिक्षेपः स एव द्रव्यगुणादीनां स्थानादिपरिवृत्तौ व्यत्ययो, यच्च देवेन भूभृतः करदीकृताः देवोऽपि तैः पृष्ठतः करं दापित इति सोऽयं दानप्रतिपादनलक्षणोऽपि विनिमय इत्येतदुभयमपीह श्लिष्टपदाभिधेयत्वादमुख्यवृ. त्त्यैवोच्यमानमुपलभ्यत इत्युभयवतीयममुख्या परिवृत्तिः // एकत्र प्रतीतस्यान्यत्र प्रत्ययः परिवृत्तौ; तथा निदर्शनेऽपीति तदनन्तरं निदर्शनं लक्षयति दृष्टान्तः प्रोक्तसिद्ध्यै यः सिद्धेऽर्थे तनिदर्शनम् / ___ पूर्वोत्तरसमत्वे तदृजु वकं च कथ्यते // 31 // दृष्टान्त इति / प्रोक्तस्य प्राकरणिकस्य सिद्धिनिश्चयः / नन्वनुमानाङ्गमपि दृष्टान्ताभिधानं पृथगलंकारः स्यादित्यत आह-सिद्धेऽर्थ इति / सिद्ध एवार्थे कंचिद्विशेषमावेदयितुं दृष्टान्तोक्तिर्निदर्शनम् , साध्ये त्वर्थेऽनुमानमिति विभागः / 'पूर्व दार्टान्तिकोक्तिं समाप्य पश्चादृष्टान्तोक्तिरिति द्वितीयः / एकयैवोक्त्या दृष्टान्तदाटन्तिकयोरुक्तिरिति तृतीयः। तदाह-पूर्वोत्तरसमत्व इति / यत्र शब्दत