________________ 350 काव्यमाला। अत्र प्रियतमेनेति / ताम्बूलादिहेतुकोऽन्य एवाधररागोऽन्यश्च मत्सरहेतुकः कषायतालक्षणो नयनगामीति तयोरभेदाध्यवसायो यत्तत्पदाभ्यां प्रतीत इति गौणी वृत्तिः / प्रकाशते च शब्दवृत्त्याधरस्थानस्थितस्य नयनस्थानप्राप्तिरिति तावतैचालंकारनिर्वाहः॥ विनिमयवती मुख्या यथा'प्रयोतन्मदसुरभीणि निम्नगायाः क्रीडन्तो गजपतयः पयांसि कृत्वा / .. किञ्जल्कव्यवहितताम्रदानलेखै रुत्तेरुः सरसिजगन्धिभिः कपोलैः // 80 // ' अत्र करिकपोलमदामोदस्याम्भोजरजःपरिमलस्य च सरित्सलिलद्विपकपोलपाल्योर्मुख्यत्वेनैव परस्परोपकरणादियं विनिमयवती मुख्या नाम परिवृत्तिः // __ अत्र करिकपोलेति / गजेन्द्राणां मदयासमचन्द्रकयोः(?) वाश्रितयोर्नदीषु संक्रामणं नदीस्थितयोश्च किजल्काम्भोजपरिमलयोर्ग्रहणं तेन दानप्रतिदानक्त्तया विनिमयो भवति // विनिमयवत्यमुख्या यथा'तस्य च प्रवयसो जटायुषः स्वर्गिणः किमिह शोच्यतेऽधुना / येन जर्जरकलेवरव्ययात्क्रीतमिन्दुकिरणोज्ज्वलं यशः // 81 // ' अत्र जर्जरकलेवरं दत्वा शशिकिरणशुभ्रं यशः क्रीतमित्यमुख्ययैव वृत्त्या विनिमयोक्तेरमुख्येयं विनिमयवती परिवृत्तिः / / अत्र जर्जरेति / मूल्यार्पणक्रयणयोरत्र बाधायक्त एवोपचारः, शब्दवृत्तिस्तु पूर्ववदेव कुण्ठैवेति भवति विनिमयः // उभयवती मुख्या यथा'लोचनाधरकृताहृतरागा वासिताननविशेषितगन्धा। वारुणी परगुणात्मगुणानां व्यत्ययं विनिमयं च वितेने // 82 //