________________ 358 काव्यमाला। अभिन्नेति / वेला मर्यादा तीरं च / गम्भीरोऽतलस्पर्शोऽचलितचित्तवृत्तिश्च // स एव प्रतीयमानसादृश्ययोर्यथा_ 'वन्मुखं पुण्डरीकं च द्वयोरप्यनयोभिदा। कमलं जलसंरोहि त्वन्मुखं त्वदुपाश्रयम् // 95 // तदेतन्निगदेनैव व्याख्यातम् / सोऽयं प्रतीयमानसादृश्ययोरुभयोय॑तिरेकः // अभिधीयमानसादृश्ययोः सदृशव्यतिरेको यथा'त्वन्मुखं पुण्डरीकं च.फुल्ले सुरभिगन्धिनी / भ्रमझमरमम्भोज लोलदृष्टि मुखं तु ते // 96 // ' अत्र मुखाम्भोजयोः 'फुल्ले सुरभिगन्धिनी' इति पदाभ्यामभिधीयमानसादृश्ययोः सदृशमेव भ्रमझमरत्वं लोलदृष्टित्वं च भेदकमुपन्यस्तमिति सोऽयं शब्दोपात्तसादृश्ययोः सदृशव्यतिरेकः // स एव प्रतीयमानसादृश्ययोर्यथा- , 'चन्द्रोऽयमम्बरोत्तंसो हंसोऽयं तोयभूषणम् / नभो नक्षत्रमालीदमिदमुत्कुमुदं पयः // 97 // अत्र पूर्वार्धे चन्द्रहंसयोः प्रतीयमानसादृश्ययोरम्बरोत्तंसत्वतोयभूषणत्वे, उत्तरार्धे तु नभःपयसोनक्षत्रमालित्वोत्कुमुदत्वे सदृशे एक भेदके। सोऽयं प्रतीयमानसादृश्ययोः सदृशव्यतिरेकः // अभिहितसादृश्ययोरसदृशव्यतिरेको यथा..'शशाम वृष्टिर्मेघानामुत्सङ्गे तस्य भूभृतः / विरराम न रामस्य धारासन्ततिरश्रुणः // 98 // अत्र भूभृत इत्यनेन साक्षादुपात्तसादृश्ययो राममाल्यवतोर्योऽयमुत्सङ्गे समस्तोऽश्रुधारापातो यस्य मेघवृष्टेरभावस्तदिदमुभयोरसदृशमेव भेदकम् / सोऽयमभिधीयमानसादृश्ययोरसदृशव्यतिरेकः // ...