________________ 348 काव्यमाला। अत्र निशाशशिनोरिति / चूडिका शिखा / सा यथा शरीरतदवयवेभ्यो भिन्नैवोपलक्ष्यते तथात्रापि निशाशशिनोः सभाभवतोः परस्परमुपकारकत्वमभिसंधाय द्वयोर्द्वयोर्गगनजगती प्रत्युपकारकत्वमन्यदेवाभिधीयते / न चैतावतैव विशेषेण पृथग्भावोऽन्योन्यालंकारकवलीकृतस्यैव तस्य संभवात् // __ अन्योन्यप्रान्तियथा- . 'जम्बूनां कुसुमोत्करे नवमधुन्यारब्धपानोत्सवाः .. कीराः पक्कफलाशया मधुकरीथुम्बन्ति मुञ्चन्ति च / 'एतेषामपि नीलकिंशुकदलैरेभिः समानत्विषां पुष्पभ्रान्तिभिरापतन्ति सहसा चञ्षु भृङ्गाङ्गनाः / / 78 // अत्र जम्बूकुसुमकुञ्जस्थितमधुकरीषु शुकशकुन्तानां या पक्वजम्बूफलम्रान्तिर्या च मधुकरीणां शुकचञ्चषु किंशुककुसुमभ्रान्तिः सेयमन्योन्यभ्रान्तिरन्योन्यस्मादपृथगेव // . अत्र जम्बूकुसुमेति / न हि तैमिरिककेशप्रत्ययवदान्तेरलंकारतापि तद्भूतसादृश्यमूलाया एव / तथा च चमत्कारिवस्त्वन्तरोपमापर्यवसायित्वमिति भ्रान्तिसंसर्ग एव विशेषार्पण उपकारः। अन्योन्यवचनेन परस्परगामिता तस्य तेनैव दर्शितेत्यन्योन्यलक्षणाश्लेषात्कथं पृथग्भवतीति / एतेनान्योन्यैकता व्याख्याता // अन्योन्यात्मकता यथा'प्रफुल्लतापिच्छनिभैरभीषुभिः शुभैश्च सप्तच्छदपांसुपाण्डुभिः / परस्परेण च्छुरितामलच्छवी तदेकवर्णाविव तौ बभूवतुः // 77 // ' . अत्र श्यामपाण्डुतयोः परस्परव्यतिरेकेणैकवर्णकरणादन्योन्यमेकता नाम भ्रान्तिभेदोऽन्योन्यात्पृथगेव // परस्परनिरूप्यतासाम्यात्क्रमप्राप्तां परिवृत्तिं निरूपयति व्यत्ययो वस्तुनो यस्तु यो वा विनिमयो मिथः / परिवृत्तिरिहोक्ता सा काव्यालंकारलक्षणे // 29 //