________________ 3 परिच्छेदः / सरखतीकण्ठामरणम् / 347 अत्र पथिकप्रपापालिकयोमिथोऽनुरागे यदेकस्य विरलाङ्गुलिना करेण पानीयपानमन्यस्याः सुतरां वारिधारातनूकरणं तेन परस्परमुपकाोपकारकभावात्मतीयमानमिदमन्योन्यम् // अत्र पथिकेति / मिथोऽनुराग इत्यनेन परस्परानुरागसंवर्धनमेवात्र विशेषा. र्पणमिति मतम् / तथा हि करस्य विरलाङ्गुलिकरणे कथमहमेतां चिराय पश्यामीति प्रपापालिकाभिप्राय एव वर्धितो भवति / एवमपि वारिधारातनूकरणे बोद्धव्यम् / न चायमेवंविधोऽर्थः केनापि शब्देनाभिहित इति भवति प्रतीयमानता वक्तृप्रतिपायादिविशेषपर्यालोचनेनैव ध्वननमुन्मिषति // प्रतीयमानाभिघीयमानं यथा'गोलाविसमोआरच्छलेण अप्पा उरम्मि से मुक्को। अणुअम्पाणिहोसं तेण वि सा गाढमुअऊढा // 7 // गोदाविषमावतारच्छलेन आत्मा उरसि अस्स मुक्तः / अनुकम्पानिर्दोषं तेनापि सा गाढमुपगूढा // ] अत्र गोदावरी विषमावतारव्याजेन तया तस्योरसि आत्मा क्षिप्तस्तेनाप्यनुकम्पा निर्दोषा सा गाढमुपगूढेत्यभिधीयमानः परस्परमनुरागादुपकार्योपकारकभावः प्रतीयत इत्युभयात्मकमिदमन्योन्यम् // अत्र गोदावरीति / पूर्ववत्प्रतीयमानोऽपि परस्परमुपकारस्थलेनानुकम्पानिर्दोषशल्दाभ्यामभिधया स्पृश्यत इत्युभयरूपम् / न च शब्दोपात्ते किं ध्वननेनेति वाच्यम् / भिन्नविषयत्वात् // अन्योन्यचूडिका यथा'शशिना च निशा निशया च शशी शशिना निशया च यथा गगनम् / भवता च सभा सभया च भवान् समया भवता च तथा भुवनम् 755 अत्र निशाशशिनोः सभाभवतोश्च परस्परमुपकार्योपकारकभावे वर्तमानयोर्यदिदं गगनं जगती च प्रसिद्धयोरुपकारकत्वचूडिकेवोपर्युपरि लभ्यते सेयमन्योन्यचूडिका //