________________ 346 नयनस्पन्दनं संभाव्यत इति संभवद्वयमत्रेति व्याख्यानेन स्फुटयति-अत्र यथा खार्यामिति // परस्परोपकारकयोरेकस्य विशेषं दृष्ट्वापरस्य विशेषो ज्ञायत इति संभवसाम्यात्तदनन्तरमन्योन्यलक्षणमाह अन्योन्यमुपकारो यस्तदन्योन्यं त्रिधा च तत् / वाच्यं प्रतीयमानं च तृतीयमुभयात्मकम् // 27 // अन्योन्यचूलिकान्योन्यभ्रान्तिरन्योन्यमेकता। अन्योन्यालंकृतेरन्तस्त्रयमेतदिहेष्यते // 28 // अन्योन्यमिति / विशेषार्पणमुपकारो न चेयं परिवृत्तिः स्थितस्यानपनयनात् दानप्रतिदानाभावाच्च / विशेषस्तु नानारूपस्तद्वाक्यार्थीभूतरसानुगामितया तत्र तत्रोन्नीयते / विभागं दर्शयति-विधेति / अभिधीयमानं विशेषतः शब्देनोपात्तं सामान्यतः शब्देन विषयीकृतं विशेषतस्तु प्रतीयमानमेवेत्युभयात्मकम् / द्वाभ्यामन्यतोऽप्रतीयमानम् / अन्यान्यचूलिकादिलक्षणानि ग्रन्थकार एव स्फुटीकरिष्यति // तेष्वभिधीयमानमन्योन्यमिह यथा-' 'कण्ठस्य तस्य स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य / अन्योन्यशोभाजननाद्बभूव साधारणो भूषणभूष्यभावः // 72 // अत्रान्योन्यशोभाजननेत्यादिनोपकार्योपकारकभावस्य द्वयोरप्यभिहिं. तत्वादभिधीयमानमिदमन्योन्यम् // कण्ठस्येति / बन्धुरो नम्रः / निस्तलो वर्तुलः // प्रतीयमानं यथा'उद्धच्छो पिअइ जलं जह जह विरलङ्गुली चिरं पहिओ। पाआवलिआ वि तह तह धारं तणुअम्पि तणुएई // 73 // ' [उद्धर्षः पिबति जलं यथा यथा विरलाङ्गुलिश्चिरं पथिकः / प्रपापालिकापि तथा तथा धारां तनुमपि तनूकरोति // ] ..