________________ काव्यमाला। कालक्षेपं तवोत्पश्यामीति / उत्पश्यामि संभावयामि / अकालक्षेपवतः कालक्षेपभवनं विधिः / कथमपीति काकूपस्थितो गमनाभावो निषेधः / न च वाच्यं द्वावत्र संभवौ / तथा च नैकोऽप्युभयविषय इति / यतो यैव कालक्षेपसामग्री सैव शुक्लापाड्रेरित्यादि कारणसहकृता निषेधमपि विषयीकरोति / अतः संभवभेदेनं किंचित्प्रमाणमिति // ' अनुभयविषयो यथा-- 'तस्याः पातुं सुरगज इव व्योम्नि पूर्वार्धलम्बी लं चेदच्छस्फटिकविशदं तर्कयेस्तिर्यगम्भः। . संसर्पन्त्याः सदसि भवतः स्रोतसि च्छायया सा __ स्यादस्थानोपगतयमुना संगमेनाभिरामा // 69 // अत्र यदि त्वमेवं कुर्यास्तदैवं स्यादिति विधिनिषेधयोरनवगतेरयमनुभयविषयः संभवः // . अत्र यदि त्वमेवं कुर्या इति / न तावदत्राभावः प्रतीयत इति न निषेध संभवः / विधिसंभवोऽपि नास्ति / यो हि व्यवस्थितकारणदर्शनेन व्यवस्थितस्यैव भवनस्य संभवः स विधिसंभवशब्देनाभिधीयते, नचेह तथा / तदिदमुक्तं अनवगतेरिति॥ एतेन विधिनिषेधयोर्विकल्पविषयोऽपि व्याख्यातः / यथा'यदि भवति मुखानां वाक्पटूनां सहस्रं निरुपममवधानं जीवितं चातिदीर्घम् / कमलमुखि तथापि मापतेस्तस्य कर्तु ... सकलगुणविचारः शक्यते वा नवेति // 70 // ' तदेतन्निगदेनैव व्याख्यातम् / / ' तदेतन्निगदेनेति / परस्परव्यभिचारिणोरेकत्र संभाव्यमानत्वादिति व्यक्ती विकल्प इत्यर्थः //