________________ 3 परिच्छेदः / सरस्वतीकण्ठाभरणम् / 343 एषु विधिविषयो यथा_ 'त्वय्यादातुं जलमवनते शाङ्गिणो वर्णचौरे ... तस्याः सिन्धोः पृथुमपि तनुं दूरभावात्प्रवाहम् / प्रेक्षिष्यन्ते गगनगतयो नूनमावर्ण्य दृष्टी रेकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम् // 66 // " अत्र त्वयि जलमादातुमवनते सति तस्याः सरितःप्रवाहो मध्यनिविष्टेन्द्रनीलमणिर्मुक्तागुण इव गगनगतिप्रेक्षणीयो भविष्यतीति विधेः संभाव्यमानत्वादयं विधिविषयः संभवः // अत्र त्वयि जलमिति / अप्रेक्षणीयस्य प्रेक्षणीयताभवनं विधिः // निषेधविषयो यथा'परस्य भूयान्विवरेऽभियोगः प्रसह्य संरक्षणमात्मरन्ध्रे / भीष्मेऽप्यसंभाव्यमिदं गुरौ वा न संभवत्येव वनेचरेषु // 67 // " अत्रेदं भीष्मद्रोणयोरसंभाव्यमानं धनुर्वेदकौशलमस्मिन्वनेचरे न संभवतीति निषेधविषयः संभवः // . अस्मिन्वनेचर इति / परविवराभियोगे खविवररक्षारूपबहुतरकारणालोकान्नायं वनेचर इति निषेध एव संभाव्यते // . : विधिनिषेधविषयो यथा- . 'उत्पश्यामि द्रुतमपि सखे मत्प्रियार्थ यियासोः ... कालक्षेपं ककुभसुरभौ पर्वते पर्वते ते / मुक्तापाङ्गैः सजलनयनैः खागतीकृत्य केकाः प्रत्युद्यातः कथमपि भवान्गन्तुमाशु व्यवस्येत् // 68 // अत्र द्रुतमपि यियासोः कालक्षेपं तवोत्पश्यामीति विधिरूपः कथमपि न भवान् गन्तुमाशु व्यवस्येदिति निषेधरूपस्तदेवं विधिनिषेधयोरसंभाव्यमानत्वादयमुभयविषयः संभवः // 3 //