________________ 342 काव्यमाला / : .. अधिको यथा ‘एको दाशरथिः कामं यातुधानाः सहस्रशः। . . . ते तु यावन्त एवाजौ तावद्वा ददृशे स तैः // 64 // अत्रैकस्य दाशरथेरनेकसंख्यैर्यातुधानैर्यत्समरकर्म तत्र तैरस्य तावद्वा दृश्यमानत्वेनैकसंख्याविरुद्धमाधिक्यं गम्यत इत्ययमधिकाख्यो विरोधः।। विषमं यथा दिशामलीकालकभङ्गतां गतस्त्रयीवधूकर्णतमालपल्लवः / / चकार यस्याध्वरधूमसंचयो मलीमसः शुक्लतरं भवद्यशः // 65 // ' *. अत्र मलीमसाध्वरधूमसंचयेन यद्यशसः शुक्लीकरणं तद्यद्यादृशादेव जायते तत्ताडगेव भवतीति प्रसिद्धर्वैषम्यात्परस्परमसङ्गतरयं विषमाख्यो विरोधः // सामग्र्येकदेशसद्भावमात्रेण कार्यसद्भावे स्थिते 'विरोधच्छायामूलत्वमिति तदनन्तरं संभवः प्राप्तावसर इत्याह प्रभूतकरणालोकात्स्यादेवमिति संभवः / स विधौ वा निषेधे वा द्वये वा न द्वयेऽपि वा // 25 // प्रभतेति / भूयांसि कारणानि दृष्ट्वा कार्यमुत्पत्स्यते नापि दैवात्कदाचिन्न स्यादिति ज्ञानसंभवः / न चायं संशय एव नहि स्याद्वा नवेति दोलायते / नापि वितर्को व्याप्यारोपस्याभावात् / क्व तययमन्तर्भवति न क्वचित् , ज्ञानान्तरस्येवोच्यमानत्वात्, अनिश्चयरूपतामात्रेण तत्रान्तर्भावेऽतिप्रसङ्गात् , नापि भ्रान्तियंग्भूतबाधपुरःसरत्वात् / भ्रान्तौ तु सिद्धायां बाधोत्पत्तिरिति वक्ष्यते ‘स विधौ वा निषेधे वा' इति / संभवो विषयनियतो विधिनिषेधोभयानुभयरूपश्चतुर्विधो विषयः / अप्रवृत्तप्रवर्तनं द्विरूपम् / प्रयोजकगतं प्रयोज्यगतं च / आयं प्रत्युक्त्याख्ये शब्दालंकारे विधिद्वारेणेत्यनेनोक्तम् , द्वितीयं तु भूतभवनलक्षणमिहोच्यते / संप्रसक्तस्याभावो निषेधः / एतेनोभयानुभयरूपी व्याख्यातौ //