________________ 3 परिच्छेदः। सरखतीकण्ठामरणम् / इत्यन्योन्यविरुद्धचेष्टितमिदं पश्यन्निजखामिनो भृङ्गीसान्द्रशिरावनद्धपरुषं धत्तेऽस्थिशेषं वपुः // 61 // अत्र दिग्वासस्त्वादीनामुत्तरोत्तरग्रथनादन्योन्यासंगतादयं ग्रथितनामा विरोधभेदः // / उत्तरोत्तरग्रथनादिति / यद्यप्येकेन विरोधिना सहोतो विरोध्यन्तरेणापि तथा भावमासादयन्नेव प्रथितस्तथाप्युत्तरग्रथनया शोभाविशेषार्पको भवतीत्यभिप्रायः॥ असङ्गतिर्यथा'सा उप्पडी गोठ्ठउहि णोक्खी कावि विसगण्ठि / भिडिय पचेल्लिउ सो मरइ जस्स ण लग्गइ कण्ठि // 12 // [सा उत्पन्ना गोष्ठभुवि नवीनैव कापि विषग्रन्थिः / भिद्यते प्रत्युत स म्रियते यस्य न लगति कण्ठे // ] अत्रायं विषग्रन्थिर्यस्य कण्ठे न लगति स म्रियत इत्येतयोः परस्परमसनतेरयमसङ्गतिर्नाम विरोधः // .. गोठउहीति / गोष्ठे / णोक्खी अपूर्वा / कावि विसगण्ठि कापि विषग्रन्थिः / 'रोमाश्चादयस्त्रियाम्' इति स्त्रीलिङ्गता / पचेल्लिड़ प्रत्युत / विषग्रन्थेः कण्ठसंबन्धेन मारकत्वं प्रतीतम् / वर्ण्यमानाया रूपस्य तथाभूतस्यैवेति व्यक्तो विरोधः // प्रत्यनीकं यथा___ 'उत्कण्ठा संतापो रणरणको जागरस्तनोस्तनुता / फलमिदमहो मयाप्तं सुखाय मृगलोचनां दृष्ट्वा // 63 // . अत्र मृगलोचनादर्शनस्यैव किल निर्वृतिः फलम् / मया तु तां दृष्ट्वान्तस्तापादिकं मयाप्तमिति प्रत्यनीकफलत्वादयं प्रत्यनीकाख्यो विरोधः / / - अत्र मृगलोचनादर्शनस्यैवेति / यद्यप्येकस्य विरुद्ध कार्यकारित्वं न विरुद्धं, तथापि ययैव प्रवृत्त्या किंचित्कार्य कर्तुद्यतो न तयैव तद्विरुद्धं करोति तदेतत्सुखायेति चतुर्थ्या द्योत्यते //