________________ 340 काव्यमाला / .. विरोधस्त्विति / परस्परमसङ्गतिरसंबन्धः, सहानवस्थानमिति यावत् / तेन सहानवस्थाननियतयोः सहानवस्थानोक्तिर्विरोध इति तात्पर्यम् / संक्षेपः स च प्ररूढो दोषः / अप्ररोहस्तु द्विधा / श्लेषोपधानेनान्यथा चान्यथाभावस्त्रिधा / सहानवस्थितयोः प्रायोदर्शनमात्रेण नैयत्यारोपः / यथा-'क्व युवतिमार्दव'मित्यादौ विरुद्धधर्मोक्तिविषयस्याचिन्त्यप्रभावातिशयत्वेन प्रसिद्धिर्वा / यथा 'दिग्वासा यदी'त्यादौ विरोधस्यारोपमात्रेण सरूपतया प्रतिपत्तिमात्रं वा / यथा 'सा उप्पडी' त्यादौ / सर्वश्चायं विरोधोऽभिधीयमानः प्रतीयमानश्च / अथादिशब्देन योऽभिधीयते सोऽभिधीयमानः। प्रतीयमानस्तु तद्विनाकृतो यथा भट्टबाणस्य 'यत्र मातङ्गगामिन्यः शीलवत्यश्च गौर्यो विभवरताश्च श्यामाः पद्मरागिण्यश्च धवलद्विजशुचिवदना मदिरामोदिश्वसनाः प्रमदाः' इति / इहान्यैरलंकारकारैरसंगतिप्रत्यानीकाधिकाविषमाख्यमलंकारचतुष्टयं विरोधात्पृथग्लक्षितम् / तल्लक्षणानि- 'विरुद्धकार्यसंप्राप्तिर्भवेत्तेनैव हेतुना / परिमाणादियोगेन व्यवस्थानमुपेयुषः // अव्यवस्थाभिधानं यदधिकं तत्प्रचक्षते / कारणेन विरूपं यत्कार्यमुक्तवदुच्यते // आश्चर्यकारि तत्प्राहुर्विषमं शब्दबुद्धयः।' इति / तदेतेषां लक्षणाभेदाद्विरोध एवान्तर्भावो न ह्यवान्तरभङ्गिभेदमात्रेण सामान्यान्तर्भावो न भवतीत्याशयवानाह-असङ्गतिःप्रत्यनीकमिति॥ तेषु विरोधः शुद्धो प्रथितश्च / तयोराद्यो यथा 'क युवतिमार्दवं क च महाहवदारुणता ___ क्व च वलयी करः क करिदन्तजमुष्टिरसिः / क च नवयौवनं क कुसुमायुधनिःस्पृहता तव ललनाविचेष्टितविरुद्धमहो ललितम् // 60 // ' अत्र युवतिमार्दवादीनां महाहवदारुणतादीनां च शुद्धानामेव परस्परमसंगतत्वादयं शुद्धविरोधः // शुद्धानामेवेति / एकेनैव प्रतियोगिना सहानवस्थानोक्तौ विरोधनिर्वाहात् / / द्वितीयो यथा'दिग्वासा यदि तत्किमस्य धनुषा शस्त्रस्य किं भस्मना भसाथास्य किमङ्गना यदि च सा कामं परिद्वेष्टि किम् /