________________ 3 परिच्छेदः / सरखतीकण्ठाभरणम् / 339 ' अत्र वसुधादय इति / निर्धारिताद्वसुधामात्रात्पत्तनवती वसुधा व्यतिरिच्यते / वसुधावत्पत्तनात्सौधवत्पत्तनम् / सौधात्तल्पवत्सौधात्तल्पाद्वराङ्गनावदिति खदिदमुक्तं उत्तरोत्तरक्रमेणेति // एतेन धर्मधर्मिखरूपोऽपि व्याख्यातः / स द्विधा / सामान्यतो विशेषतश्च // तन सामान्यतो यथा- गीतशीतांशुताम्बूलकर्पूरवनितादिभिः / ___ असारोऽप्येष संसारः सारवानिव लक्ष्यते // 58 // ' : अत्र गीतादीनां जगतः सारभूतानामविशेषेणैव सर्वेषामुपादानाद्धेतुतृतीयान्ततया च संसारसारवत्त्वेऽङ्गमावादयं सामान्यतो धर्मधर्मिरूपः सारः // - अत्र गीतादीनामिति / नहि गीतादौ कश्चिद्विशेष उक्तः / अत एवादिशब्दोऽपि सजीवस्तथापि दध्यादीनामङ्गभावः प्रतीयत इत्यत आह-तृतीयान्ततया चेति / तृतीयया हि कारकत्वमुक्तम् , कारकत्वं च क्रियोपसर्जनरूपमित्यर्थः // विशेषतो यथा 'अवैमि पूतमात्मानं द्वयेनैव द्विजोत्तमाः / _ मूर्ध्नि गङ्गाप्रपातेन धौतपादाम्भसा च वः // 59 // ' अत्र गङ्गाप्रपातसप्तर्षिपादोदकयोर्विशेषेण सारभूतयोरुपादानाद्धिमवतः पूतत्वे चाङ्गभूतत्वादयं विशेषतो धर्मर्मिरूपः सारः // अत्र गङ्गाप्रपातेति / प्रपातपादोदकयोर्गङ्गायाः सप्तर्षिभिश्च विशेषितत्वादतामुपपादयति-हिमवतः पूतत्वे चेति // व्यतिरेकोत्तरे विरुद्धधर्माक्रान्तिरस्तीति सङ्गत्या विरोधलक्षणमाह विरोधस्तु पदार्थानां परस्परमसङ्गतिः। " असङ्गतिः प्रत्यनीकमधिकं विषमश्च सः॥ 24 //