________________ 338 काव्यमाला। धर्मिरूपो यथा'मधुविकसितोत्पलावतंसं शशिकरपल्लवितं च हर्म्यपृष्ठम् / मदनजनितविभ्रमा च कान्ता सुखमिदमर्थवतां विभूतयोऽन्याः॥' अत्र मधुप्रभृतीनां विभूतिभ्यः सारभूतानामुद्धरणादयं धर्मिरूपः सारः // विभूतिभ्य इति / विभूतयः प्रथमानिर्दिष्टास्तेन पूर्ववन्नामूषां धर्मिभावेन प्रतीतिभासोऽस्तीति विशिष्टमध्वादिरूपं वस्तुनाङ्गभावेन गम्यत इति // अथ व्यतिरेकेण धर्मरूपो यथा'पोढमहिलाणं जजं सुसिक्खिरं तं रए सुहावेइ / जजं असिक्खि णववरणं तंतं रइं देइ // 56 // [प्रौढमहिलानां यद्यत्सुशिक्षितं तद्रतौ सुखयति / __ यद्यदशिक्षितं नववधूनां तत्तद्रति ददाति // ] अत्र प्रौढानां सुशिक्षितं सुरतकर्म, अप्रौढस्त्रीणां पुनरशिक्षितं सुखयतीति कर्मान्तरलक्षणेभ्यो धर्मेभ्यः सुशिक्षिताशिक्षितरतकर्मलक्षणा धर्माः स्त्रीधर्माव्यतिरेकेण प्रतिपाद्यन्त इति धर्मव्यतिरेकरूपोऽयं सारः॥ __ अप्रौढस्त्रीणामिति / षष्ट्या धर्मधर्मिभावोऽभिहितः / तर्हि निर्धारणं "कस्मादित्यत आह-कर्मान्तरेति / रत इत्यनेन सामान्यत उपादानात् प्रौढस्त्रीसंबन्धिनो ललितस्य सुशिक्षितत्वं विशेषमुपादाय मुग्धस्त्रीसंबन्धिनोऽशिक्षितत्वं व्यतिरेकी विशेष उपात्तः // व्यतिरेकेण धर्मिरूपो यथा राज्ये सारं वसुधा वसुधायां पत्तनं पुरे सौधम् / सौधे तल्पं तल्पे वराङ्गनानङ्गसर्वखम् // 57 // ' ... अत्र वसुधादयो धर्मिण उत्तरोत्तरक्रमेण पूर्वतः पूर्वतो व्यतिरिच्यन्त इत्ययं धर्मव्यतिरेकः सारः //