________________ 3 परिच्छेदः।] सरखतीकण्ठाभरणम् / 337 तदेवोभयलक्ष्यं यथा'प्रयच्छतोच्चैः कुसुमानि मानिनी विपक्षगोत्रं दयितेन लम्भिता / न किंचिदूचे चरणेन केवलं लिलेख बाष्पाकुललोचना भुवम् 53' - अत्र चरणेन भूमिलेखनमिङ्गितं दृशोर्बाष्पाकुलत्वमाकारस्ताभ्यां गोत्रस्खलनोद्भवो मानिन्या मनस्तापः प्रतीयमान इतीगिताकारलक्ष्यः सूक्ष्मभेदः // विभज्यमानस्य सरूपतया सूक्ष्मानन्तरमुत्तरलक्षणमाह पदार्थानां तु यः सारस्तदुत्चरमिहोच्यते / स धर्मधर्मिरूपाभ्यां व्यतिरेकाच भिद्यते // 23 // पदार्थानां त्विति / सारः सर्वखायमानमुत्कर्षशालि वस्तु / पदार्थानामिति निर्धारणे षष्टी / उत्तरमित्यन्वर्थ नाम / उत्कृष्टत्वमुदोऽर्थस्तत्रैव प्रकर्षस्तरपः / धर्मधर्मिरूपाभ्यामिति / व्यस्तसमस्ताभ्याम् / धर्म उपसर्जनं परप्रवणतया प्रतीयमानं वस्तु / अतथाभूतं तु धर्मिरूपम् / तदयमर्थः-प्रसिद्धवस्तुमध्ये कस्यचिदुत्कर्षवत्तया निर्धारणमुत्तरम् / तत्रिधा / धर्मरूपं धर्मिरूपमुभयं च / आद्ययोः प्रत्येकं प्रकारद्वयम् / निर्धार्यमाणस्य शुद्धस्योपादानं, निर्धार्यानुत्तरव्यतिरेकिधर्मवत्तया वा / तदिदमाह-व्यतिरेकाञ्चेति / अन्त्यस्यापि सामान्यविशेषरूपतया रूपत्वमिति पदप्रकारमुत्तरमिति // . तेषु धर्मखरूपं यथा.. 'दानं वित्तादृतं वाचः कीर्तिधर्मों तथायुषः / परोपकरणं कायादसारासारमुद्धरेत् // 54 // ' अत्र दानसत्यकीर्त्यादीनां वित्तादिवस्तुधर्माणांसारभूतानामुद्धारादयं धर्मरूपः सारः // . वित्तादिवस्तुधर्माणामिति / पञ्चम्या विभागः प्रत्यायितः / स च संश्लेषपूर्वक एवेति दानादीनामुपसर्जनताप्रतीतिः // 22 स. क.