________________ - काव्यमाला। लक्षणात्मकहेतुविशेषस्य साधादनन्तरं सूक्ष्मं लक्षयतिप्रतीयमानमिङ्गितलक्ष्यं यथा'वाहित्ता पडिवअणं ण देइ रूसेइ एकमेकम्मि / अज्जा कजेण विणा पइप्पमाणे गईकच्छे // 51 // व्याहृता प्रतिवचनं न ददाति रुष्यत्येकैकस्मिन् / . - आर्या कार्येण विना प्रदीप्यमाने नदीकच्छे // ] __ अत्र प्रतिवचनादानं परिजनप्रकोपाभ्यां प्रदीप्यमाने नदीकच्छे इति हेतुना प्रत्याय्यमानः संकेतकुड्याङ्गदावोद्भववधूमनस्तापो वाक्या र्थत्वेन लक्षित इत्ययमिङ्गितलक्ष्यः प्रतीयमानः सूक्ष्मभेदः // .. अत्र प्रतिवचनादानमिति / नहि प्रतिवचनप्रदानाभावमात्रमत्र चमत्कारकारि, तस्मादन्यथापि संभवात्, अतः प्रतिवचनप्रदानाभिप्राया विपरीतचित्तवृत्तिविशेषोन्नायिका समीपदेशापसरणादिलक्षणा क्रिया काचित्प्रतिवचनाप्रदानपदेनाभिमता। न च प्रकोपोऽप्यनुभवरूपतामनासादयन्वादनीयतामासादयतीति नूनं तेनापि भ्रूभङ्गादिरूपा क्रियैवाभिसंहितेत्याशयवतोक्तमिङ्गिताभ्यामिति / यद्येवं तद्धि काव्यशोभानिर्वाहाकिमन्येन लक्षिते नेति / नहि यथोक्तप्रतिवचनाद्यदानप्रकोपाभ्यां कश्चिद्विवक्षितार्थलाभ इति भावः // प्रतीयमानमेवाकारलक्ष्यं यथा'सामाइ सामलीए अद्धच्छिप्पलोअमुहसोहा / जम्बूदलकअकण्णावअंसे भमिरे हलिअउत्ते // 52 // [श्यामायाः श्यामलतया अर्धाक्षिप्रलोक(न)मुखशोभा / / जम्बूदलकृतकर्णावतंसे भ्रमति हलिकपुत्रे // ] ... / अनार्धाक्षिप्रलोकनमुखश्यामताभ्यामाकाराभ्यां जम्बूदलकल्पितांवसंस इत्यनेन प्रत्याय्यमानः संकेतगमनभ्रंशसंभवः श्यामाया मनस्तापो लक्ष्यत इत्ययमाकारलक्ष्यः प्रतीयमानः सूक्ष्मभेदः // ...