________________ 3 परिच्छेदः / सरस्वतीकण्ठाभरणम् / 335 प्रमेयज्ञानमुत्पद्यते / तथाह्यन्योन्यसंवलितेत्यादौ दम्पत्योमिथोऽनुस्मृतिलक्षणस्य प्रेम्णः कतिपयसंवेद्यस्यापि शब्दबलात्प्रत्यक्षायमाणत्वमनुभवसिद्धमेव / तदेतदाहसूक्ष्मात्प्रत्यक्षत इति / सूक्ष्मालंकारे तु कविप्रतिभाया लिङ्गविषयत्वाच्छब्दोऽपि तद्विषय एव / लिङ्गाच प्रतीतिरुत्पद्यमाना सामान्यपुरस्कारेण प्रवृत्ता न प्रत्यक्षवत्तद्विशेषोल्लेखक्षमेति सूक्ष्मगुणवैधर्म्यम् / तदिदमुक्तम्-सूक्ष्मोऽप्रत्यक्ष इति / अत्र कैश्चित्प्रतीयमानस्य सूक्ष्मस्य भाव इति संज्ञां विधायालंकारान्तरमुक्तं तदसत्, सूक्ष्मसामान्यलक्षणेन कोडीकरणादित्याह-इङ्गिताकारलक्ष्यत्वमिति / एतेन लक्ष्यत्वपुनरुक्त्याशङ्का परिहृता / अत्र स्वयंवरेति / न च शृङ्गारचेष्टाप्रत्यर्पितस्य मनोरथशब्देनाभिधीयमानमर्थ पुनरुक्तमिति वाच्यम् / नहि यथानुरागानुभावेन चित्तवृत्तयः स्फुटा उपस्थाप्यन्ते तथा खशब्देनेति विस्तरेण सप्रपञ्चमेव वक्ष्यामः / खशब्दस्तु किमर्थमित्यवशिष्यते तत्र ब्रूमः / स्वयंवरसमाजप्रवेशादिना येषां सामान्यत उत्कण्ठा प्रतीतिपथमवतीर्णासीत्तेषामिन्दुमतीसंनिधौ तदनुभावबलेनासंख्यसूक्ष्मविशेषवती सैवाभिव्यक्तेति दृढानुबन्धलक्षणस्य प्रेम्णः प्रकर्षकाष्टां पुष्णाति / एवमन्यत्रापि // तदेवाकारलक्ष्यं यथा'सा यूनि तस्मिन्नभिलाषबन्धं शशाक शालीनतया न वक्तुम् / रोमाञ्चलक्ष्येण स गात्रयष्टिं भित्त्वा निराक्रामदरालकेश्याः // 49 // ' अत्राभिलाषबन्धो रोमाञ्चलक्ष्येण गात्रयष्टिं भित्त्वा निराकामदित्यनेनाभिधीयमान आकारलक्ष्यः सूक्ष्मभेदोऽभिहितः // तदेवोभयलक्ष्यं यथा 'त्वदर्पितदृशस्तस्या गीतगोष्ठयामवर्धत / उद्दामरागपिशुना छाया कापि मुखाम्बुजे // 50 // ' अत्र त्वदर्पितदृश इति इङ्गितच्छाया कापि मुखाम्बुज इत्याकारस्ताभ्यामुद्दामरागपिशुनेत्यनेनाभिधीयमानस्याननरागस्य सूक्ष्मरूपतया लक्ष्यमाणत्वादयमभिधीयमानोभयलक्ष्यः सूक्ष्मभेदः //