________________ 334 काव्यमाला। द्वितीयो यथा-- 'पीणतुण दुग्गेजं जस्स भुरआअन्तणिदुरपरिग्गहिअम् / . . रिहस्स विसमवलिअं कंठं दुक्खेण जीविअं वोलीणम् // 18 // " [पीनत्वेन दुर्गाद्यं यस्य भुजयोरन्तनिष्ठुरपरिगृहीतम् / ___रिष्टस्य विषमवलितं कण्ठं दुःखेन जीवितमतिकान्तम् // अत्र जीवितदुःखातिक्रमणे कण्ठस्य वलनं, वलनस्य निष्ठुरग्रहणं, निष्ठुरग्रहणस्यापि पीनत्वेन दुर्ग्राह्यत्वं हेतुरिति प्रतीयमानकारणत्वं कारणमालेत्यहेतुभेदः // . . अत्र जितेन्द्रियत्वादीनामिति / अत्र जीवितदुःखातिक्रमण इति / यद्यत्र हेतुमाला न स्यात्तदा परस्परानपेक्षायामुपन्यासे वाक्यार्थपोषोऽपि) न स्यादिति // लक्षणात्मकहेतुविशेषस्य साधादनन्तरं सूक्ष्मं लक्षयति इङ्गिताकारलक्ष्योऽर्थः सूक्ष्मः सूक्ष्मगुणात्तु सः / सूक्ष्मात्प्रत्यक्षतः सूक्ष्मो प्रत्यक्ष इति भिद्यते // 21 // वाच्यः प्रतीयमानश्च सूक्ष्मोऽत्र द्विविधो मतः / इङ्गिताकारलक्ष्यत्वं लक्ष्यसामान्यमेतयोः // 22 // तत्रेङ्गितलक्ष्यमभिधीयमानसूक्ष्मं यथा-'तां प्रत्यभिव्यक्तमनोरथानाम्' इति / अत्र स्वयंवरमिलितानां राज्ञां राजपुत्रीं प्रति प्राप्तिलक्षणस्य मनोरथस्याभिधीयमानस्य शृङ्गारचेष्टात्मकेनेङ्गितेन व्यङ्गयत्वादयमिङ्गितलक्ष्योऽभिधीयमानः सूक्ष्मभेदः // __ इङ्गितेति / इङ्गितमाकार इङ्गिताकारौ चेत्यर्थः / शरीरावयवव्यापार इङ्गितम् / रूपादेरन्यथात्वमाकारः / सूक्ष्मार्थदर्शनं सूक्ष्ममित्यर्थगुणेषूक्तं तेन पौनरुक्त्यमाशङ्कयाह-सूक्ष्मगुणात्तु स इति / हृदयसंवादभागित्रिचतुरहृदयसंवेद्यस्य / अत एवातिसूक्ष्मार्थस्य प्रत्यक्षायमाणत्वात्सूक्ष्मो नामार्थगुणः / यथाहि कवेः प्रतिभा सूक्ष्मविशेषोल्लेखिनी तथा तन्मूलकः शब्दोऽपीति स्फुटाभतया प्रत्यक्ष