________________ 3 परिच्छेदः / सरखतीकण्ठाभरणम् / 333 तत्कालपणते. मुरद्विषि नवे दृष्ट्वा विलासं श्रियः ___ कुर्वत्कोपकषायितेन मनसा मिथ्योत्प्लुतीः पातु वः // 46 // ' ... अत्र कोपकषायितेन मनसस्तस्योत्लुतिकरणसमर्थस्यापीश्वरकरग्रहणामिथ्यापदाभिधीयमानः प्रतीतो व्याघातस्ततोऽयं शक्तेर्हानिहेतुना व्याहतो नामा हेतुभेदः // 'ईश्वरकरग्रहणादिति / ननु कोपकषायितमनस्त्वमुत्पादितकार्यमेव कथमन्यथा कुर्वदित्युच्यतेऽत आह-मिथ्यापदेति // इह कैश्चित्कारणमाला पृथगलंकार इत्युक्तम् , पूर्वस्योत्तरोत्तरं प्रति हेतुभावोक्तिस्तल्लक्षणम् / स द्विविधोऽभिधीयमानः प्रतीयमानो वा / उभयथापि नाहेतोर्व्यतिरिच्यत इत्याह यस्तु कारणमालेति हेतुसंतान उच्यते / पृथक्पृथगसामर्थ्यात्सोऽप्यहेतोर्न भिद्यते // 19 // एकोऽभिधीयमानेषु हेतुत्वेषु भवेत्तयोः। .... प्रतीयमानेष्वपरः कारणत्वेषु जायते // 20 // .. यस्त्विति / यद्यपि प्रथमस्य प्रथमं हेतुभावो निवृत्त एव तथाप्युत्तरस्य प्रथममुखनिरीक्षणप्रवृत्तस्योत्तरं प्रति हेतुभावोऽभिधीयते / न हि स्वतन्त्रस्यैव हेतुभाबे कारणमाला भासते // तदिदमेकदेशद्वारा व्यञ्जयन्नाह‘तयोराद्यो यथा 'जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते / . - गुणाधिके पुंसि जनोऽनुरज्यते जनानुरागप्रभवाश्व संपदः // 47 // ' अत्र जितेन्द्रियत्वादीनामुत्तरोत्तरं प्रति हेतुभूतानामपि संपदुत्पत्ती पूर्वपूर्वसव्यपेक्षायां समुदितानामेव कारणत्वं साधनादिपदैरभिधीयत इति सोऽयमभिधीयमानहेतुत्वकारणमालेत्यहेतुभेदः //