________________ 332 काव्यमाला / . . न तव निशुम्भसंभ्रमवशादपि दारुणया भगवति चेष्टया कलुषितं वदनाम्बुरुहम् // 43 // : अत्र निशुम्भसंभ्रमस्य हेतोरनुत्पादितभृकुट्यादिदारुणचेष्टाद्वारेण भगवतीमुखाम्बुरुहकालुष्यस्य करणे यदसामर्थ्य तत्र तन्मुखाख्यस्य वस्तुनः खभावो निमित्तमिति खभावादनुत्पादितकार्योऽयमहेतुः॥ . अत्र निशुम्भेति // भृकुट्यादिदारुणचेष्टाद्वारेणेति / अन्यथा निशुम्भसंभ्रमवशादिति पञ्चमी असंगता स्यादिति भावः // स एव शक्तेर्हानिहेतुना यथा'अनुरागवती संध्या दिवसस्तत्पुरःसरः / अहो दैवगतिश्चित्रा तथापि न समागमः // 44 // अत्रानुरागवत्त्वतत्पुरःसरत्वयोः समागमहेत्वोः सामर्थ्य विघाते दैव. गतिः कारणमिति शक्तेर्हानिहेतुनायमकृतखकार्यों नामाऽहेतुः // अनुरागो लौहित्यं प्रीतिश्च / पुरःसरोऽग्रे गमनशीलः संनिधौ स्थितश्च // वस्तुनः खभावेन व्याहतो यथा'नीवीबन्धोच्छ्रसनशिथिलं यत्र यक्षाङ्गनानां क्षौमं रागादनिभृतकरेष्वाक्षिपत्सु प्रियेषु / अर्चिस्तुङ्गानभिमुखगतान्प्राप्य रत्नप्रदीपा न्हीमूढानां भवति विफलः प्रेरणाचूर्णमुष्टिः // 45 // ' अत्र रत्नप्रदीपनिर्वापणे चूर्णमुष्टेरपत्यक्तखरूपस्यापि विधाते रत्नप्रदी. पाख्यवस्तुखभावः कारणमित्ययं वस्तुखभावेन व्याहतो नामाऽहेतुभूतः / / अमृतसेकजीवितकङ्कालशक्तिप्रतिबन्धे को हेतुरत आहस एव शक्तेर्हानिहेतुना यथा'शंभोरुद्धतनृत्यकर्मणि करे कङ्कालमाचं हरेः संघट्टस्फुटितेन्दुमण्डलगलत्पीयूषसंजीवितम् /