________________ 3 परिच्छेदः / ] सरखतीकण्ठाभरणम् / 331 अत्राभिव्यक्तमेव व्यधिकरणत्वं कार्यकरणयोः प्रतीयत इत्ययं व्यधिकरणो नाम चित्रहेतुः // एवं शब्दस्येति / प्रकारस्योपाधेरेव भेदो विवक्षितो न तु व्यक्तिमात्रस्येति भावः / सा बालेति / बाल्यादीनां सामानाधिकरण्य एव प्रागल्भ्यादिकं प्रति हेतुभावः प्रतीतः स इह गौणवृत्तिव्यपाश्रयतयोपनिबध्यमानः कान्तिमावहति / तथाहि / अन्यत्प्रागल्भ्यं बालायाः सरलालोकितवामिश्रणाद्यसामर्थ्यलक्षणम् , अन्यच नायकप्रकाण्डे कथमेषां नियत्रणा स्यादित्यनध्यवसायलक्षणम् / तयोश्च तद्भावापंत्तिरत्र व्यक्तैव / एवं कातरत्वादौ बोध्यम् / आदिग्रहणेन स्वहेतुकतया कार्यहेतुकतया चोपनिबध्यमानः संकलितो भवति // हेतोरनन्तरं तद्विपरीतमहेतुं लक्षयन्नाह-. वस्तुनो वा स्वभावेन शक्तेर्वा हानिहेतुना। अकृतात्मीयकार्यः स्यादहेतुाहतस्तु यः // 18 // वस्तुन इति / हेतुतया प्रतीतोऽपि कार्य न करोतीत्यभिधीयमानोऽहेतुः / स द्विविधः / स्वरूपेण कार्यव्यभिचारी, व्यापारविरोधेन वा / तथाभूतोऽपि च कार्य न करोति / तत्र द्वयं निबन्धनं यद्गतं कार्यमुपजनयितव्यं तस्य वस्तुनः खभावो हेतुत्वाभिमतस्य शक्तिहानिर्वा / सापि द्विधा–आत्यन्तिकोऽभावः, प्रतिबन्धमात्रं वा / तत्र वस्तुस्वभावेन शक्तेरत्यन्तासत्त्वेन च द्विरूपखरूपाव्यभिचारीकृतात्मीकार्य इत्यनेनोक्तम् , वस्तुस्वभावेन शक्तिप्रतिबन्धेन च द्विप्रकारोऽपि च व्यापाराव्यभिचारी व्याहतः, इत्यनेन यद्यपि शक्तिरत्यन्तासत्त्वे हेतुभाव एव न भवति, तथापि गुणवृत्त्या हेतुभावाध्यासो बोद्धव्यः। सा च गुणवृत्तिः श्लेषोपहितान्यादृशी भवति / ननु चात्र चेष्टाया हेतुत्वं तृतीयया प्रतीयत इति सा हेतुत्वेन वक्तुमुचि. तेत्यत आह... तत्र वस्तुखभावेनाकृतकार्यों यथा 'न विरचिता ललाटतटलास्यकरी भृकुटि न परुषहुंकृतेन मधुरस्मितमन्तरितम् /