________________ 330 काव्यमाला। - कार्यानन्तरजो यथा ‘पश्चात्पर्यस्य किरणानुदीर्णं चन्द्रमण्डलम् / प्रागेव हरिणाक्षीणामुदीर्णो रागसागरः // 39 // ' अत्र चन्द्रोदयलक्षणाद्धेतोः पूर्वकालमेव रागसागर उदीर्ण इति कार्यस्योदयलाभः / स इह गुणवृत्त्याश्रयणे हेतावतिशयं पुष्यतीत्ययं कार्यानन्तरजो नाम चित्रहेतुः // युक्तो यथा 'गुणानुरागमिश्रेण यशंसा ते प्रसर्पता / दिग्वधूनां मुखे जातमकस्मादर्धकुङ्कुमम् // 40 // अत्र दिग्वधूमुखेषु ते गुणानुरागः कुङ्कुमं, यशस्तु चन्दनमित्ययं युक्तो नाम गौणवृत्तिव्यपाश्रयश्चित्रहेतुः // नयुक्तो यथा 'न मीलयति पद्मानि न नभोऽप्यवगाहते / त्वन्मुखेन्दुममासूनां हरणायैव यस्यति // 41 // अत्र मुखेन्दोः पद्मनिमीलनादि न युज्यत इति नयुक्तो नाम चित्रभेदः // ननु व्यक्तिभेदेऽपि हेतोरसंख्यता चेद्विवक्षिता किमेवं शब्देनाधिकेनेत्यत आह एवं शब्दस्य प्रकारवाचित्वाब्यधिकरणादयः प्रयुज्यन्ते / व्यधिकरणो यथा'सा बाला वयमप्रगल्भवयसः सा स्त्री वयं कातराः सा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयम् / . साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं दोषैरन्यजनाश्रयैरपटवो जाताः स्म इत्यद्भुतम् // 12 //