________________ 3 परिच्छेदः / सरखतीकण्ठाभरणम् / 329 पासिता ध्रुवं करोत्येव कमप्यनुग्रहम् // ' अत्र न विद्यत इत्यत्यन्ताभावमुपन्यस्य कमपीति प्रतिभासत्ताभिधानेन प्रतिषेधः // विदूरकार्यः सहजः कार्यानन्तरजस्तथा / युक्तो न युक्त इत्येवमसंख्याश्चित्रहेतवः // 16 // तेऽमी प्रयोगमार्गेषु गौणवृत्तिव्यपाश्रयाः। कार्याः काव्येषु वैचित्र्यं तथा ते कर्तुमीशते // 17 // तेषु विदूरकार्यों यथा_ 'अननुवानेन युगोपमानमलब्धमौवींकिणलाञ्छनेन / / अस्पृष्टखड्गत्सरुणापि चासीगृक्षावती तस्य भुजेन भूमिः 37' सोऽयं बाल्य एव नवयौवनकार्यकरणाद्विदूरकार्यो नाम चित्रहेतुः॥ विदूरकार्य इति / कालान्तरमाव्यवस्थासंपाद्यं प्रागवस्थावत एव कार्यमुपजायमानं यत्रोच्यते स विदूरकार्यस्तच्च कार्य शक्तिविशेषाधीनमिति बाल्येऽपि प्रभावातिशयदर्शनाद्भुजेनैव रक्षा कृतेति गौणवृत्तिव्यपाश्रयता // संहजो यथा 'सममेव समाक्रान्तं द्वयं द्विरदगामिना / तेन सिंहासनं पिव्यमखिलं. चारिमण्डलम् // 38 // ' ___ अत्र राज्याभिषेकरिपुमण्डलाक्रमणयोर्हेतुहेतुमद्भावेन सत्यपि पौर्वापर्ये क्षिप्रकारित्वात्तुल्यमेव कार्यकारणभावो विवक्षितस्तेन सहजो नामायं चित्रहेतुः // सहजः कार्ये सहोत्पत्तिकतया निबद्धः / कारणशक्तिप्रकर्षात्समकालमिव कार्य प्रतिभासते, तेन हेतुशक्तिप्रकर्षाभिव्यक्तिरत्र मूलम् / 'यदने ददति यथा वा कर्तुमीशते" इति / एवमनन्तरजेऽपि किं कारणं पूर्वमुत कार्यमस्ति स एव व्यङ्ग्यः / युक्तेऽपि कारणगुणानुविधायि कार्यमसदेवारोप्यते न प्रमुक्तेति तदेव विपरीतमिति गौणवृत्त्याश्रयता // .