________________ 328 काव्यमाला। अत्र प्रागभावाभावो यथा 'उद्यानसहकाराणामनुद्भिन्ना न मञ्जरी / देयः पथिकनारीणां सतिलः सलिलाञ्जलिः // 35 // अत्र वस्तुन उत्पादः प्रागभावाभाव उच्यते / तेनेह सहकारमञ्जरीमुद्भेदस्य पथिकनारीणां मरणे कारणत्वम् / / वस्तुन उत्पाद इति / भाव एवाभावाभावव्यवहारभूमिः।अभावव्यवहारविषयमात्रस्य च विभागः कृतोऽस्ति / प्रागभावादेः प्रध्वंसादिरूपतेति न न्यूनता विभागवाक्यस्याशङ्कनीया। तेनेति / भूतभव्यसमुच्चारणे भूतं भव्यायेति न्यायान्मञ्जरीणामुद्भेदस्य कारकतालाभोऽन्यथा वाक्यभेदे न किंचित्स्यात् / प्रागभावात्प्रागभावाभावभङ्गया च समस्तमञ्जरीसमुद्भेदेन वसन्तप्रौढिध्वननात्प्रकृतविप्रलम्भः पोषः॥ प्रध्वंसाभावाभावो यथा'पीनश्रोणि गभीरनाभि निभृतं मध्ये भृशोच्चस्तनं पायाद्वः परिरब्धमब्धिदुहितुः कान्तेन कान्तं वपुः / खावासानुपघातनिर्वृतमनास्तत्कालमीलदृशे यस्मै सोऽच्युतनाभिपद्मवसतिर्वेधाः शिवं ध्यायति // 36 // ' अत्र यथोक्तेन वपुषा योऽयमालिङ्गनेऽपि विधिनिवासनाभिपकजानुपघातः, स इह वस्तुनोऽवस्थानमेव प्रध्वंसाभावाभाव उच्यते / स चेहाच्युतनाभिपङ्कजनिवासिनो विधेर्मनोनिर्वाणकारणं भवति // पीनश्रोणीति / निभृतं दुर्लक्ष्यम् / अब्धिदुहितापि सर्वाङ्गीणमाश्लेषमभिलषति भगवानपीति कान्तेन कान्तमित्येताभ्यामभिव्यज्यते। उपलक्षणं चेदम् / तादात्म्यात्यन्ताभावाभावावप्युदाहरणीयौ। यथा-'अवनिरुदकं तेजो वायुनभः शशिभास्करौ पुरुष इति यत्केचिद्भिन्ना वदन्ति तनूस्तव / तदनघ वचोवैचित्रीमिर्निरावरणस्य ते विदधति पयःपूरोन्मीलन्मृषा मिहिरोपमाम् // ' अत्र भिन्न इत्यन्योन्याभावमुपन्यस्य निरावरणस्य मृषेत्येताभ्यां निषेधः / यथा च-न विद्यते यद्यपि सर्ववासनागुणानुवन्धि प्रतिभानमद्भुतम् / श्रुतेन यत्नेन च वागु