________________ 326 काव्यमाला। ... सप्तमीवाच्यं भावलक्षणं यथा ___ 'इति शासति सेनान्यां गच्छतस्ताननेकथा / - निषिध्य हसता किंचित्तस्थे तत्रान्धकारिणा // 29 // ' - अत्र सेनान्यः पलायमानगणानुशासनक्रिययान्धकारेः खप्रकाशनक्रिया लक्ष्यते यथा-'गोषु दुह्यमानासु गतः' इति / उपलक्षणं चैतत् / तेनान्यदपि भावलक्षणं शत्राद्यभिधेयमुपलक्ष्यते, यथात्रैव हसता तस्थे इति // 'यस्य च भावेन भावलक्षणम् 2 / 3 / 37' इत्यस्य सूत्रस्यार्थस्तु यस्य वस्तुनो भावेन क्रियया वस्त्वन्तरस्य भावः क्रिया लक्ष्यते तद्वचनात्सप्तमीत्यत आहअत्र सेनान्य इति / हसता तस्थ इति लक्षणे शतृविधिः 'लक्षणहेत्वोः क्रियायाः 3 / 2 / 126' इति सूत्रणात् // यथा वा'यज्वभिः संभृतं हव्यं विततेष्वध्वरेषु सः। जातवेदोमुखान्मायी मिषतामाच्छिनत्ति नः // 30 // ' इत्यनादरोपाधिके भावलक्षणे षष्ठ्यपि भवतीति // अभावः प्रागभावादिभेदेनेह चतुर्विधः। घटाभावादिभेदात्तु तस्य संख्या न विद्यते // 15 // अभावसामान्यमभावप्रमाणनिरूपणप्रस्तावे 'असत्तायाः पदार्थानाम्' इत्यनेन वक्ष्यति / तेनात्र सामान्यलक्षणं न कृतवान् / स द्विविधस्तादात्म्यप्रतियोगिकः, संसर्गप्रतियोगिकश्च / द्वितीयस्त्रिधा प्राकूप्रध्वंसात्यन्ताभावभेदात् / तदाह-प्रागभावादिति / ननु न प्रागभावादिरेकोऽस्ति प्रतियोगिभेदेन भेदादित्यत आहघटाभावादीति / अनेन रूपेण संख्या नास्त्येव / सामान्यं तु प्रागभावत्वादिकमाश्रित्य चातुर्विध्यम्, सोऽयं तुशब्दस्यार्थः // तेषु प्रागभावो यथा'अनभ्यासेन विद्यानामसंसर्गेण धीमताम् / अनिग्रहेण चाक्षाणां व्यसनं जायते नृणाम् // 31 // '