________________ 324 काव्यमाला। अत्र क्रियानाविष्टतयैवेन्दुमत्यां महीपतीनां शृङ्गारचेष्टा भवन्त्यो / लक्ष्यन्ते / सोऽयं लक्षणहेतुः प्रतिना योगे द्वितीयामुत्पादयति // इह पञ्चैव लक्षणे विभक्तयो विहिताः / तद्यथा। 'अनुर्लक्षणे 1 / 4 / 84', 'लक्षणेत्थंभूत 1 / 4 / 90' इत्यादिना कर्मसंज्ञां विधाय 'कर्मप्रक्चनीययुक्ते 2 / 3 / 8' इति द्वितीया। 'येनाङ्गविकारः 2 / 3 / 20', 'इत्थंभूतलक्षणे 2 / 3 / 21' इत्येताभ्यां तृतीया / 'उत्पातेन ज्ञापिते च 1 / 4 / 44 वा.' इति चतुर्थी / 'यस्य च भावेन भावलक्षणम् 2 / 3 / 37' इति सप्तमी / 'षष्टी चानादरे 2 / 3 / 38' इति षष्टी / तदेतदाहद्वितीया चेति / षष्टीमग्रे वक्ष्यति / 'षष्टी चानादरे 2 / 3 / 38' इति सूत्रे चकारस्य समुच्चेयतया न प्रधाना सेति नात्र तुल्यकक्षतया गणिता। क्रियानाविष्टं खव्यापारशून्यं तटस्थमेव ययाप्रियते, तेन 'कारकाद्भेदः / अत्र हि क्रियानाविष्टस्यैव इन्दुमत्यामितीन्दुमतीमालम्बनविभावीकृत्य ( विधीय )मानाः शृङ्गारचेष्टास्तयैवावच्छिद्यन्ते, तदवस्था एव च लक्ष्यन्ते, ततो भवति हेतुत्वं लक्षणत्वमवधित्वं चेति। ननु कथमत्र द्वितीया, यावता हेतुत्वात्ततीयया भवितव्यमित्यत आह-द्वितीयामिति / नाप्राप्तायां तृतीयायामियं विधीयमाना बलवती तां बाधत इत्यर्थः // तृतीयावाच्यमित्थंभूतलक्षणं यथा 'कण्ठेकालः करस्थेन कपालेनेन्दुशेखरः / - जटाभिः स्निग्धताम्राभिराविरासीद्वृषध्वजः // 26 // ' अत्र कण्ठेकाल इत्यादीनि क्रियायामनिविशमानान्येव वृषध्वजं ज्ञापयन्ति यथा जटाभिस्तापस इति // कण्ठेकाल इत्यादीनीति / यद्यपि कपालेन जटाभिरियेवोदाहरणं तथापि प्रसङ्गादितरयाख्यानं ज्ञापकत्वम् / उभयत्रापि तुल्यविभक्तिवाच्यतायां तु विशेषः / तेनान्योऽप्येवंजातीयो लक्षणप्रकारः स्वयमूहनीय इत्युक्तं भवति, यद्वक्ष्यति 'उपलक्षणं चैतत्' इत्यादिना / उक्तमेव प्रसिद्धोदाहरणेन द्रढयति-यथा जटामिरिति / यथाहीत्थंभूतस्य तेनैव प्रकारेण प्रकारवतो लक्षणं जटा भवन्ति तथेहापि कपालादिकमिति भावः // तृतीयावाच्य एवाङ्गविकारलक्षणं यथा'स बाल आसीद्वपुषा चतुर्भुजो मुखेन पूर्णेन्दुनिभस्त्रिलोचनः / युवा कराक्रान्तमहीभृदुच्चकैरसंशयं संप्रति तैजसा रविः / / 27'