________________ 3 परिच्छेदः / सरखतीकण्ठाभरणम् / 323 अत्र बलप्रत्युजीवनमरणक्रिययोः सप्तमीवाच्यनैमित्तिकाधिकरणकारकभावेन हनूमानाविशन्प्रयोजको भवतीति क्रियाविष्टोऽयं प्रयोजको नाम कारकहेतुभेदः // तस्मिञ्जीवतीति / जीवनमरणयोर्बलस्यैव खातन्यं हनूमान्प्रयोजयति / प्रयोजकता चास्य ( ते एव) जीवत्युज्झितप्राणे इति पदाभ्यामुपात्ता / कतमत्कारकमिदं भवतीत्याह-सप्तमीवाच्येति / ननु च–'अङ्गुल्यग्रे मदकलघटान्दर्शयन्तीव धूर्ता' इत्यादौ काल्पनिकादावपि सप्तमीभावात्कथं कारकतेत्यत आहनैमित्तिकेति / अन्यस्यासंभवादिति भावः // स एव क्रियानाविष्टो यथा'मानयोग्यां करोमीति प्रियस्थानस्थितां सखीम् / बाला भ्रूभङ्गजिह्माक्षी पश्यति स्फुरिताधरा // 24 // अत्र मानाभ्यासक्रियाया भ्रूभङ्गजिह्माक्षिप्रेक्षणादिरूपाया आत्मन्येवात्मनः समावेशो न भवतीति क्रियानाविष्टोऽयमिति शब्दाभिधेयप्रयोजको नाम कारकहेतुभेदः // ___ मानयोग्यामिति / भ्रूभङ्गजिह्माक्षिस्फुरिताधरादिप्रेक्षणारूपायां मानाभ्यासक्रियायामपि बालायाः स्वातन्त्र्यं, तादृशीं तु तामिति शब्दनिर्देश्योऽभिप्रायविशेषः प्रयुक्ते / तस्य तु न क्रियान्तरमुपात्तम् / उपात्तायास्तु मानक्रियायाः खात्मनि समावेशोऽनुपपन्नः / अभिप्रायोऽपि हि .व्यापारप्रचयरूपक्रियान्तर्भूत एव / यदाह महाभाष्यकारः–'यत् किंचित्तदभिसंधिपूर्वकं प्रेषणमध्येषणं वा तत्सर्वं पच्यर्थ' इति / स्मरणादिकं चास्य व्यापारः संभवतीत्यतो नाकारकत्वं वाच्यम् / तदेतदभिसंधायाह-आत्मन्येवात्मन इति // द्वितीया च तृतीया च चतुर्थी सप्तमी च यम् / क्रियानाविष्टमाचष्टे लक्षणं ज्ञापकश्व सः॥ 14 // . स.द्वितीयावाच्यो यथा'तां प्रत्यभिव्यक्तमनोरथानां महीपतीनां प्रणयाग्रदूत्यः / प्रवालशोभा इव पादपानां शृङ्गारचेष्टा विविधा बभूवुः // 25 //