________________ 322 काव्यमाला। अत्र प्रभावः क्रियायामनिविशमान एव हेतौ तृतीयां प्रवर्तयति न कर्तरीति क्रियायामनाविष्टकारकहेतुभेदः // .. तस्य राज्ञः प्रभावेनेत्यत्र सदपि कर्तृत्वमविवक्षितं, अतो हेतुमात्रविवक्षायां पाक्षिकी तृतीया भवतीत्याह-हेतौ तृतीयायामिति / करणभावस्त्वसंभावित एव प्रभावमात्रस्य व्यभिचारात् // .. निवर्तकः क्रियाविष्टो यथा 'चन्दनारण्यमाधूय स्पृष्ट्वा मलयनिर्झरान् / पथिकानां प्रमाथाय पवनोऽयमुपस्थितः // 21 // अत्रैवंविधस्य पवनस्य पथिकप्रमाथसाधनक्रियायां कर्तृत्वेनावेशान्निवर्तको नामायमाविष्टक्रियः कारकहेतुभेदः // प्रमाथसाधनक्रियायां कर्तृत्वेनेति निष्ठाप्रत्ययेनोपात्तेनेति भावः // स एव क्रियानाविष्टो यथा 'प्रजागरात्खिलीभूतस्तस्याः खमसमागमः / बाप्पस्तु न ददात्येनां द्रष्टुं चित्रगतामपि // 22 // अत्र समागमनिवृत्तावनिविशमानः प्रजागरस्तृतीयार्थे पञ्चमी प्रयोजयति / बाष्पः पुनर्दानक्रियावेशादर्शनक्रियायामनाविशन्कर्मसंबन्धाचामप्रधानभावेन चोपगृह्णातीत्यनाविष्टक्रियो नाम निवर्तकोऽयं कारक हेतुभेदः // खिलीभावो निवृत्तिः / तृतीयार्थ इति / हेताववयित्वाप्रतीतेरपादानभावेन संभावितः / दानक्रियेति / स्यादत्र दर्शनक्रियासमावेशो यदि दानक्रियावेशः स्यात् / स एव तु नास्ति नत्रा निषेधादित्यर्थः // प्रयोजकः क्रियाविष्टो यथा 'तस्मिञ्जीवति दुर्धर्षे हतमप्यहतं बलम् / हनूमत्युज्झितप्राणे जीवन्तोऽपि मृता वयम् // 23 //