________________ 3 परिच्छेदः / सरखतीकण्ठाभरणम् / 321 विषये हेतुः क्रियामात्रविषयश्च कारकमिति प्रकीर्णप्रवृत्तौ विभागकरणालियाग्रहणं चेह निष्फलं स्यात् / तस्माद्यत्र क्रियां प्रत्यवधिभावो निरूप्यते तत्र द्वयीगतिर्निमित्तत्वमात्रविवक्षा अवस्तुविवक्षा वा, द्वितीयेऽपि कारकत्वविवक्षा वा। आद्येऽप्याश्रितावधिभावस्य वस्त्वन्तरपरहेतुभावविवक्षा अवस्तुत्वविवक्षा वा / द्वितीयेऽपि कारकत्वक्रियानुबन्धिव्यापारत्वम् / प्रधानक्रियानुकूलक्रियान्तरसमावेश इति यावत् / तद्विविधं शब्दाभिहितम् , अतथाभूतं च / आद्यं कारकविभक्तेर्विषयः, द्वितीयं हेतुविभक्तेः / द्वयमपि च क्रियाविषयमेव / षण्णामपि कारकाणां क्रियाघटितमूर्तित्वात् / अवस्तुभूतं तु निमित्तमभावात्मकतया न विक्रियते / विकाराभावाच न क्रियाविशिष्टमतथाभावे / न च कारकमिति तृतीय एव प्रकारः प्रसिद्धकार्यकारणभावविपर्यासेनोपनिबध्यमानो हेतुराश्चर्यकारितया चित्र आरोपितमपि च हेतुत्वं हेतुत्वमेवेति भवति चतुर्थः प्रकारः / बहिरसंभाव्यमानस्यापि कविप्रतिभासंरम्भोत्थाप्यतया चमत्कारविशेषार्पणादक्षुण्णैवालंकारता / यदाह-'को हि प्रतीतिमात्रकाव्ये वस्तुस्थितिं भावयेत्' इति / तदेतत्सर्वमभिसंधाय विभागमाहकारक इत्यादि // यः प्रवृत्ति निवृत्तिं च प्रयुक्ति चान्तरा विशन् / उदासीनोऽपि वा कुर्यात्कारकं तत्प्रचक्षते // 13 // असतः सत्ता प्रवृत्तिः / सतोऽपगमो निवृत्तिः / प्रवर्तमानस्य प्रवर्तना प्रयुक्तिः / अन्तरा विशन्नुपात्तयुक्तिः / उदासीनोऽतथाभूतः / तेन कारकस्य षटू प्रकाराः // तेषु प्रवर्तकः क्रियाविष्टो यथा-. _ 'अयमान्दोलितप्रौढचन्दनद्रुमपल्लवः / उत्पादयति सर्वस्य प्रीतिं मलयमारुतः // 19 // ' सोऽयं यथोक्तो मलयमारुतः प्रीत्युत्पादनक्रियासमावेशात्प्रवर्तको नाम कारकहेतुभेदः // स एव क्रियानाविष्टो यथा'तस्य राज्ञः प्रभावेण तदुद्यानानि जज्ञिरे / आर्द्राशुकप्रवालानामास्पदं सुरशाखिनाम् // 20 // 21 स० क.