________________ 320 काव्यमाला / अत्रैकमेव मधुमथनमुद्दिश्यानेकस्तुङ्गत्वादेः प्रवृद्धत्वादिः प्रसिद्धो हेतुावय॑ते / खाभाविकत्वं च तं प्रत्येषां विभाव्यते / सेयं चित्रा नाम खाभाविकत्वविभावनायां विभावना // . तथैव गीभङ्गया विचित्रा यथा_ 'वकं निसर्गसुरभि वपुरव्याजसुन्दरम् / अकारणरिपुस्तस्या निर्निमित्तं सुहृच्च मे // 17 // ___ अत्रोत्तरयोविरहसमागमादिकारणान्तरविभावनयोः खाभाविकीभ्यां प्राग्विभावनाभ्यां यथासंख्यं विशेष उक्तः / सेयं विभावनयैव विभावनायां विशेषोक्तेस्तयैव गीभङ्गया विचित्रा नाम विभावना भवति / वक्रं निसर्गसुरभीति / तस्या यथोक्ते वक्रवपुषी ममाकारणरिपुर्निर्निमितं सुहृच्चेत्यन्वयो विवक्षितप्रतीतिलाभाच नार्थान्तरैकवाचकत्वलक्षणो दोषः / यथासंख्यमिति / तयोरप्येकैकं प्रति संपादनलक्षणविशेषार्पणक्षमत्वात् // सैवान्यया गीभङ्गया यथा'वनेचराणां वनितासखानां दरीगृहोत्सङ्गनिषक्तभासः / भवन्ति यत्रौषधयो रजन्यामतैलपूराः सुरतप्रदीपाः // 18 // अत्रातैलपूराः सुरतप्रदीपा इति खाभाविकत्व विभावनायां शेषपदाथैरविभावनारूपैर्विशेष उक्तः। सेयमन्यया गीभङ्गया विचित्रा नाम विभावना भवति // शेषपदाथै रिति / वनितासखत्वादिभिः सुरताद्युपपादकैः // क्रियायाः कारणं हेतुः कारको ज्ञापकश्च सः / अभावश्चित्रहेतुश्च चतुर्विध इहेष्यते // 12 // हेतुप्रतिषेधो विभावनायामुक्तः, अथ हेतुरेव क इत्यपेक्षायां हेतुलक्षणमाहक्रियायाः कारणं हेतुरिति / उपपत्तौ क्रियायामेव- सर्वस्य निमित्तभावो निरूप्यत इत्यभिसंधाय क्रियाया इत्युक्तमिति कश्चित् / तदसत् / द्रव्यगुणक्रिया