________________ 3 परिच्छेदः / सरखतीकण्ठाभरणम् / खाभाविकत्वविभावनायां शुद्धा यथा___'अनजिलासिता दृष्टिभूरनावर्जिता नता / - अरञ्जितारुणश्चायमधरस्तव सुन्दरि // 14 // अत्रैकैकं दृष्ट्यादिकमुद्दिश्यासितत्वादेरनञ्जितत्वादिरेकैको हेतुळवर्त्यते / खाभाविकत्वं चासितत्वादि दृष्यादेविभाव्यते / सेयं शुद्धा नाम स्वाभाविकविभावनायां विभावना // कारणान्तरविभावनायां चित्रा यथा'असंभृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य / कामस्य पुष्पव्यतिरिक्तमत्रं बाल्यात्परं साथ वयः प्रपेदे 15' अत्रैकमेव वयोलक्षणं पदार्थमुद्दिश्याप्यनेको मण्डनादेः प्रसिद्धो हेतुः संभृतत्वादिावर्त्यते / कारणान्तरं च स्तनो दधातूपचयलावण्यलक्ष्मीलाभादिविभाव्यते / सेयं चिय नाम कारणान्तरविभावना // असंभृतमिति / ननु मण्डनस्य संभरणपूर्वकतया प्रसिद्धरस्तु विभावना / 'अनासवाख्यं करणं मदस्य कामस्य पुष्पव्यतिरिक्तमत्रम्' इत्यत्र तु कथम् / तथाहि / करणमिति करणे वा ल्युट / आये मदस्य करणमासवो वयस्तु ततो भिन्नमिति कदाचिद्यतिरेकः स्यान्नतु विभावना। द्वितीयेऽपि वयो मदस्य क्रिया आसवनाम्नी न भवतीति न संगतम् / एवं पुष्पव्यतिरिक्तमस्त्रमित्यत्रापि विकल्प्य यथायथं दूषणं वाच्यम् / तत्कथमेतत् / उच्यते / करणं क्रिया आसवमाख्यातीत्यासवाख्यम् / रूयाख्यवत्प्रत्ययविधिः / न तथाभूतमनासवाख्यम् / हेतुतया न क्वचिदासवबोधक्षमम् / तथा हेतुप्रतिषेध एव भङ्ग्या दर्शितो भवति / अनमपि क्रियारूपं तत्पुष्पव्यतिरिक्तं पुष्पच्युतं विना पुष्पेभ्य इति पूर्ववदुन्नेयम् / स्तनोद्भेदेत्यादौ नार्थसंदेहः // सैव खाभाविकत्वविभावनायां यथा'णमह अवट्टिअतुङ्गं अविसारिअ विस्यअअणोणअअं गहिरम् / अप्पलहुअपरिसण्डं अण्णाअपरमत्थपाअडं महुमहणम् // 16 // ' [नमत अवस्थिततुङ्गमविसारिताविस्तृतमनवनतगभीरम् / अप्रलघुमपरिश्लश्णमज्ञातपरमार्थपारदं मधुमथनम् // ]