________________ 318 काव्यमाला / पक्षे खभावपर्यवसानमस्तीति जातेः किंचिदपकृष्टां विभावनां विभावयितुमाह प्रसिद्धहेतुव्यावृत्त्या यत्किचित्कारणान्तरम् / यत्र स्वाभाविकं वापि विभाव्यं सा विभावना // 9 // शुद्धा चित्रा विचित्रा च विविधा सा निगद्यते / शुद्धा यत्रैकमुद्दिश्य हेतुरेको निवर्तते // 10 // प्रसिद्धेति / प्रसिद्धस्पर्शहेतोर्विभाव्यतया प्रसिद्धग्रहणं नियमेन तद्भावापत्तिमूलत्वं चास्यास्तेन विरोधः / तथा हि ‘णमह अवडिअतुझं-' इत्यादौ वर्धनजन्यमन्यदेव तुङ्गत्वमन्यच्च पारमेश्वरमाजानिकमिति तयोरभेदाध्यवसायः / एतदेवाभिसंधाय काश्मीरकैरतिशयोक्तिरस्या मूलमुक्ता / यदिति निपातो यत्रार्थे / यद्यपि कारणाभावेऽपि कार्योत्पत्तिरित्येव लक्षणं तथापि महासंज्ञाकरणप्रयोजनं किमित्याशङ्कायां द्वयं विभाव्यमाह / तदयमत्र संक्षेपः-यथोक्ता तावद्विभावना / सा द्वयी / कारणान्तरपर्यवसिता, स्वभावपर्यवसिता चेति // प्रत्येकं च शुद्धादिभेदात्षोढा संपद्यत इत्येतावतैव विभावना शरीरनिष्पत्तेः / यथा वर्णो वर्णन करम्बितं चित्रं तथा विभावनापि विभावनया तादृशी चित्रेत्याह अनेको यत्र सा चित्रा विचित्रा यत्र तां प्रति / तयान्यया वा गीभङ्गया विशेषः कश्चिदुच्यते // 11 // अनेक इति / यथा च स्वरूपसंपादकातिरिक्तविशेषप्रवेशाद्विचित्राः खग्दामादयस्तथेयमपीति दर्शयति-विचित्रा यत्रेति / तां विभावनाम् / तया विभावनया / अन्ययेति अलंकारान्तररूपया // तत्र कारणान्तरविभावनायां शुद्धा यथा'अपीसक्षीबकादम्बमसंसृष्टामलाम्बरम् / अप्रसादितसूक्ष्माम्बु जगदासीन्मनोहरम् // 13 // अत्रैकैकं कादम्बादिकमुद्दिश्य क्षीबतादेः पीतत्वादिरेकैकः प्रसिद्धहेतुावर्तते / हेत्वन्तरं च शस्त्प्रभावो विभाव्यते / सेयं शुद्धा नाम कारणविभावमायां विभावना // पीतं पानम् / सूक्ष्मं निर्मलम् / शरत्प्रभाव इति। प्रस्तावौचितीभ्यामभिव्यक्तः॥