________________ 317 3 परिच्छेदः / ] सरखतीकण्ठाभरणम् / - शीतार्तिव्यसनातुरः पुनरयं दीनो जनः कूर्मव. स्वान्यङ्गानि शरीर एव हि निजे निहोतुमाकाङ्क्षति // 10 // __ अत्र हेमन्तहेतुकतिर्यगाद्याश्रयव्यापारस्वरूपोक्तेरियं कालहेतुर्नाम जातिः॥ गोजाविकमिति / 'विभाषावृक्षमृग 2 / 4 / 12' इत्यादिना पाक्षिक एकवद्भावः / अत्र हेमन्तेति / यद्यपि तिर्यगाश्रयेयं जातिः तथापि हेतोरधिकस्य प्रवेशात्पृथग्भावः / संकरस्तु न दुष्यति // शक्तिर्यथा'बध्नन्नङ्गेषु रोमाञ्चं कुर्वन्मनसि निर्वृतिम् / नेत्रे निमीलयन्नेष प्रियास्पर्शः प्रवर्तते // 11 // अत्र रोमाञ्चबन्धादिषु, प्रियास्पर्शप्रवृत्तेनिमित्तस्योक्तत्वादियं शक्तिहेतुर्नाम जातिः // रोमाञ्चबन्धादिष्विति / बध्नन्नित्यादौ शतृप्रत्ययेन कर्ताभिधीयते / स च सामानाधिकरण्यात्स्पर्श एव / स्पर्शत्वाविशेषे तु शक्तिरेव प्रयोजिका वाच्येत्यर्थः // साधनहेतुर्यथा- . 'उपनिहितहलीशासार्गलद्वारमारा त्परिचकितपुरन्ध्रीसारिताभ्यर्णभाण्डम् / पवनरयतिरश्चीर्वारिधाराः प्रतीच्छ ___न्विशति वलितशृङ्गः पामरागारमुक्षा // 12 // ' अत्र जायमानक्रियाहेतुभूतयोः कर्तृकर्मणोः साधनयोः स्वरूपवर्णनादयं साधनहेतुर्नाम जातिभेदः // उपनिहितेति / अगारद्वारस्य हलीशावरुद्धतया दुष्प्रवेशत्वमत एव बहिश्चिरं विलम्बात् प्रत्येषणवेशनयोर्वर्तमानता / उपलक्षणं चेदम् / तेन करणादयोऽप्युदाहार्याः॥