________________ 316 काव्यमाला / लीटेति / व्यस्तं विगतरुधिरम् / सावज्ञं तिर्यक् वलन्ती ये सृक्किणी ताभ्यामाहता इति संबन्धः / यथैकत्र कुजे खपतः स्वरूपं तथान्यत्रापीति बहुवचनरहस्यम् / अत एव न देशहेतुशङ्का / अत्र सिंहेति / मदवासनया विशेषितत्वादिति भावः॥ नीचाश्रया यथा‘भद्रं ते सदृशं यदध्वगशतैः कीर्तिस्तवो प्यते स्थाने रूपमनुत्तमं सुकृतिना दानेन कर्णो जितः / इत्यालोच्य चिरं दृशा करुणया शीतातुरेण स्तुतः पान्थेनैकपलालमुष्टिरुचिना गर्वायते हालिकः // 8 // अत्र हीनपात्रहालिकखरूपोक्तिरियं नीचाश्रया जातिः / / भद्रं त इति / करुणाकार्पण्यव्यञ्जकविशेषशालिनी / गर्वायते अगर्ववानेव गर्ववान्भवति / भृशादी लक्षत्वादेर्मत्वर्थलक्षणत्वात् // अथ हेतवः / तेषु देशो यथा--- . 'इमास्ता विन्ध्यादेः शुकहरितवंशीवनघना भुवः क्रीडालोलद्विरदरदनारुग्णतरवः / लताकुळे यासामुपनदि रतक्लान्तशबरी कपोलखेदाम्भःपरिचयनुदो वान्ति मरुतः // 9 // अत्र विन्ध्याद्रेरीदृशेषु प्रदेशेप्वित्थंभूता वायवो वान्तीति हेतुत्वेनोक्तत्वाद्देशस्य देशहेतुर्जातिरियम् // इमास्ता इति / देशविशेषमुद्दिश्य मरुतां विधानमुद्देश्यस्य च विधौ हेतुभावः / वंशीवनानां दुष्प्रवेशतया मरुतां मन्दीभावो द्विरदैस्तरभङ्गादवकाशलामे प्रगल्भत्वमतः क्लमखेदापनयनसामर्थ्यमेतत्सर्वमाह-अत्र विन्ध्याद्रेरिति // कालहेतुर्यथा'कम्पन्ते कपयो भृशं जलकृशं गोजाविकं ग्लायति श्वा चुल्लीकुहरोदरं क्षणमपि क्षिप्तोऽपि नैवोज्झति /